________________
Shri Mahavir Jain Aradhana Kendra
३२
www.kobatirth.org
काव्यमाला ।
दशरथ: - ( सवैलक्षस्मितम् ) भगवन्विश्वमित्र अभ्यमित्रीणस्य तत्र - भवतः सुनासीरस्य नासीरपूरकेण पदातिपरमाणुना मयापि कदाचिदुद्धृतं धनुर्यन्मूलोऽयमलीकलोकप्रवादो भवन्तमप्याप्याययति । विश्वामित्रः - (सोत्साहस्मितम् 1) सेखे त्रैलोक्याभयलग्नकेन भवता वीरेण विस्मारितस्तज्जीमूतमुहूर्तमण्डनधनुः पाण्डित्यमाखण्डलः । किं चाजस्रमखार्पितेन हविषा संफुल्लमांसोल्लसत्सर्वाङ्गीणवलीविलुप्तनयनव्यूढः कथं वर्तते ॥ २८ ॥
Acharya Shri Kailassagarsuri Gyanmandir
P
वणयोरप्यनौचित्यमित्युभयतः पाशा रज्जुरिति भावः । अत्र तावत्प्रथमपाशमपासयितुं स्मितमिति । 'सोत्प्रासः स मनाक्स्मितम्' इत्यमर: । 'अलक्ष्यदशनद्वारं स्मितमिच्छन्ति सूरयः' इति भरतः । द्वितीयपाशमपासयन्नाह —— अभ्यमित्रीणस्येत्यादि । अभ्यमित्रीणस्य शत्रोरलमभिमुखं गच्छतः । ' अभ्यमित्राच्छ च' इति चकारात्खः । 'यो गच्छत्यलं विद्विषतः प्रति । सोऽभ्यमित्र्योऽभ्यमित्रीयोऽप्यभ्यमित्रीणः ॥' इत्यमरः । सुनासीरस्येन्द्रस्य । ‘सुनासीरः पुरुहूतः पुरंदरः' इत्यमरः । ' नासीरोऽग्रगन्तरि' इति विश्वः । पदातिषु मध्ये परमाणुरतिलघुः। 'अलीकं त्वप्रियेऽनृते' इत्यमरः । प्रवादोऽत्र प्रकृष्टवचनम् । आप्याययति तृप्तं करोति । 'आप्यायी वृद्धौ' । णिचि कृते रूपम् । अयमेतादृशोऽप्यत्यन्तं शतमखपक्षपाती, तस्मादवश्यमध्वररक्षक इत्यभिप्रायादाह - सोत्साहमिति । तत्फलितमस्मदायासेनेति भावः । खोद्देश्यसिद्धये वारंवारं स्तुतिपूर्वकमुत्तरलयतित्रैलोक्येति । भवता वीरेणेति सहेतुकं विशेषणम् । आखण्डल इन्द्रः । जीमूते मेघे मुहूर्तमल्पकालं मण्डनमाभरणं यद्धनुस्तस्य पाण्डित्यं कौशलं विस्मारितस्त्याजितः । त्रैलोक्यस्याभय लग्नकेनाभयप्रतिभुवा । किं च स इन्द्रः कथं वर्तते । कष्टसृष्ट्या तिष्ठति । तदभावे हेतुमाह — अजस्रेत्यादि । अनवरतमखार्पितेन यज्ञदत्तेन हविषा घृतादिना संफुल्लं प्रवृद्धं यन्मांसम् । देवानां हविर्भुक्त्वात् । तेनोल्लसन्त्युद्गच्छन्ती या सर्वाङ्गीणा सर्वाङ्गव्यापिनी वली त्रिवली तथा विलुप्त आच्छादितो नयनव्यूहो लोचनसमूहो यस्य स तथा । सर्वाङ्गीणेति तद्व्याप्नोतीत्यर्थे 'तत्सर्वादेः' इति खः । ' घनजीमूतमुदिर -' इत्यमरः । ‘आखण्डलः सहस्राक्षः' इति च । व्यूहस्तर्कसमूहयो:' इति विश्वः । वामदेवो विश्वामित्रवाक्यं द्रढयितुं दशरथं प्रोत्साहयति - यथाहेत्यादि । भूकश्यप इति दशरथस्य नामान्तरम् । अनेकधेत्यत्र 'संख्याया विधार्थे धा' इति था । सुधर्मायां देवस
१. ‘सोत्प्रासस्मितम्' इसि पाठान्तरम्. २. 'सखे' इत्यस्मादग्रे 'दशरथ' इत्यधिकं क्वचित्.
For Private and Personal Use Only