________________
Shri Mahavir Jain Aradhana Kendra
२८
(पुरोऽवलोक्य सहर्षम् 1)
www.kobatirth.org
काव्यमाला |
Acharya Shri Kailassagarsuri Gyanmandir
चिरादक्ष्णोर्जाड्यं शमयति समस्तासुरवधूकचाकृष्टिक्रीडाप्रसभसुभगंभावुकभुजः । त्रिलोकीजङ्घालोज्वलसहजतेजा मनुकुल
प्रसूतिः सुत्राम्णो विजय सहकृत्वा दशरथः ॥ २४ ॥ सखे वामदेव, इयमनेन पीयूषतुषारसीकरासारवर्षिणी सुजनसंवादकौतुकमेघलेखा पौरस्त्येनेव मरुता लोकनाथेन सहस्रशिखरीक्रियते ।
या मुकुटचन्द्रिका शिरोलंकारज्योत्स्ना तया यद्दुर्दिनमिव दुर्दिनं तेन स्फुरन्यश्वरणपलवस्तेन प्रतिपदं पदे पदे स्थाने स्थाने उक्ता कथिता दो: संपद्बाहुबलं यस्य तादृशेन । यद्वा प्रतिपदोक्तं व्यक्तोदितम् । यद्वा प्रतिपदोक्तं कण्ठोक्तम् । 'चन्द्रिका कौमुदी ज्योत्स्ना' इत्यमरः । ‘मेघच्छन्नेऽह्नि दुर्दिनम्' इति च । 'दोर्दोषा च भुजा भुजः' इत्यपि । 'दन्तुरस्तून्नतदन्ते तथोन्नतनतेऽपि च' इति मेदिनीकरः । इदानीमस्य शूरत्वं प्रकटयन्नाह - चि रादिति । अयं दशरथोऽक्ष्णोश्चक्षुषोर्जाड्यं जडतां विषयाग्राहकत्वं शमयति । उत्फुक्लनेत्रतामातनुत इत्यर्थः । समस्तदैत्य स्त्रीकचाकृष्टिः केशाकर्षणं सैव क्रीडा तथा प्रसभं हठेन सुभगंभावुको मनोहरीभूतो भुजो बाहुर्यस्य । तथा त्रयाणां लोकानां समाहारस्त्रिलोकी तत्र जङ्घालमतिशीघ्रगं यदुज्ज्वलं साहजिकं तेजस्तद्यस्यास्ति सः । सुत्राम्ण इन्द्रस्य विजयसहकृत्वा विजयसहकारी । द्वितीयः । सुभगंभावुक इत्यत्र असुभगः सुभगो भवतीति कर्तरि भुवः खिष्णुखुकञ' इति खुकञ् । 'अरुर्द्विषदजन्तस्य -' इति मुम् । जङ्घाल इत्यत्र 'प्राणिस्थादातो लजन्यतरस्याम्' इति लच् । 'जङ्घालोSतिजवस्तुल्यौ' इत्यमर: । 'सुत्रामा गोत्रभिद्वज्री' इति च । सहकृत्वेति सह करोतीत्यर्थे 'सहे च' इति क्वनिप् । इयमनेनेति । इयं सुजनानां महतां यः संवादो मिथो भाषणं तत्र यत्कौतुकं तदेव मेघलेखा मेघश्रेणी । पौरस्त्येन प्राचीभवेन । यद्वा पुरः स्थितेन । मरुतेव मरुता देवेनेव लोकनाथेन दशरथेन सहस्रशिखरीक्रियते । विस्तीर्णा क्रियत इत्यर्थः । अन्यापि च मेघलेखा मरुता वायुना विस्तीर्यते । 'शिखरं शैलवृक्षाग्रविस्तारेष्वपि दृश्यते' इति विश्वः । यद्वा यद्ययमेतादृशो मित्रं तत्कथमतिचिरेणास्य दर्शनं क्रियत इति वामदेववचनमाशङ्कय चिरदर्शने निमित्तमाह – इयमनेनेति । अनेन लोकनाथेन दशरथेन यः सुजनसंवादस्तज्जन्यं यत्कौतुकं तदेव मेघलेखा मेघश्रेणी पौरस्त्येन पूर्वदिगीशेन मरुता देवेनेन्द्रेण सह सहस्रशिखरीक्रियते । तथा च क्षणमप्येनमिन्द्रो न त्यजतीति भावः । कीदृशी । पीयूषमेव यत्तुषारं हिमं तस्य सीकरोऽम्बुकणास्तस्यासारो धारासंपातस्तद्वर्षिणी । अमृतवर्षिणीत्यर्थः । अन्यापि मेघलेखा तुषारासारवर्षिणी पौरस्त्येन मरुता पूर्ववातेन सहस्रशिखरीक्रियत इतस्ततः क्षिप्यत इति ध्वनिः । पौरस्त्येनेत्यत्र
For Private and Personal Use Only