________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१ अङ्कः ]
अनर्घराघवम् । (ततः प्रविशति वामदेवोपदिश्यमानवा विश्वामित्रः ।) विश्वामित्रः-सखे वामदेव, त्वमधुनैव वसिष्ठाश्रमादागतोऽसि । कच्चित्कुशली तावदरुन्धतीनाम्ना पतिव्रतामयेन ज्योतिषा सहचरितधर्मा तत्रभवान्मैत्रावरुमिः । __वामदेवः-विशेषेण पुनरद्य याज्यकुलमुपतिष्ठमाने चिरंतनप्रणयिनि कौशिके ।
विश्वामित्र:--सखे वामदेव, चिरेण दशरथो द्रष्टव्य इति सर्वमनोरथानामुपरि वर्तामहे ।
वामदेवः-(सविनयम् ।) भगवन्कुशिकनन्दन, धन्यः खल्वयं राजा सावित्रो यमेवमनुरुध्यन्ते भवन्तोऽपि । विश्वामित्र:-सखे, धन्य एवायम् ।
नमन्नृपतिमण्डलीमुकुटचन्द्रिकादुर्दिन__स्फुरच्चरणपल्लवप्रतिपदोक्तदोःसंपदा । अनेन ससृजेतरां तुरगमेवमुक्तभ्रम
तुरंगखुरचन्द्रकप्रकरदन्तुरा मेदिनी ॥ २३ ॥
पतिव्रतात्वम् । सहचरितधर्मेति । 'धर्मादनिच्केवलात्' इत्यनिसमासान्तः । मैत्रवरुणिवसिष्ठः । अर्थतः स्तुवन्नाह-विशेषणेत्यादि । याज्यकुलमुपतिष्ठमाने यजमानगृहं लधुमिच्छति । 'वा लिप्सायाम्' इति तङ् । चिरंतनप्रणयिनि पूर्वप्रेमवति । 'सायंचिरम्-' इति ट्युः, तुट च । 'प्रियसुहृदि' इति पाठे प्रियः प्रीतः । 'इगुपधज्ञाप्रीकिरः कः' इति कः । सुहृच्छोभनं हृन्मनो यस्य । पश्चात्कर्मधारयः । कौशिक इत्यत्र 'यस्य च भावेन भावलक्षणम्' इति सप्तमी। अनुरुध्यन्ते कामयन्ते । 'अनोरुध कामे' इत्यस्मात् श्यन् दैवादिकः । सावित्रः सवितुरपत्यम् । धन्यः कथमयमित्यत आह-नमदित्यादि । अनेन राज्ञा दशरथेन मेदिनी पृथिवी तुरगमेधोऽश्वमेधो यज्ञस्तदर्थे त्यक्तोऽनन्तरं भ्रमन्यस्तुरंगोऽश्वस्तस्य यः खुरचन्द्रकप्रकरश्चन्द्रकलाकारखुरसमूहस्तेन दन्तुरा निम्नोन्नता ससृजेतरामत्यर्थेन सृष्टा । कर्मणि लिट् । 'तिनश्च' इति तरप् । 'किमेत्तिङव्ययघादाम्बद्रव्यप्रकर्षे' इत्यामुः । कीदृशेन । नमन्ती या राजमण्डली । 'मण्डलं त्रिषु' इत्यमरः । तस्या
१. 'वामदेव' इत्यस्मादने 'कथय' इत्यधिकं क्वचित्. २. 'विश्वामित्रे' इति पाठान्तरम्. ३. 'भगवन्तोऽपि' इति पाठान्तरम्.
For Private and Personal Use Only