________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२४
काव्यमाला ।
अस्मद्गोत्रमहत्तरः क्रतुभुजामद्यायमाद्यो रवि__ यज्वानो वयमद्य ते' भगवती भूरद्य राजन्वती । अद्य खं बहुमन्यते सहचरैरस्माभिराखण्डलो __ येनेतावदरुन्धतीपतिरपि खेनानुगृह्णाति नः ॥ १८ ॥ वामदेवः-राजर्षे, सहजानुभावगम्भीरमहिमानो यूयमेव तादृशाय यशसे । वैयं तु केवलमुपदेष्टारः।।
उन्मुद्रयति हि कुमुदाकरमशरन्निशानिशातनिस्तुषोऽपि तुषारकिरणः । स पुनः किमुच्यते भवगान्द्वितीयपरमेष्ठी वसिष्ठः ॥ १९ ॥
अद्य ते प्रसिद्धा वयं यज्वानो याज्ञिकाः । अद्य भूः पृथ्वी राजन्वती प्रकृष्टराजयुक्ता। अद्याखण्डल इन्द्रोऽस्माभिः सहचरैः स्वमात्मानं बहु यथा स्यादेवं मन्यतेऽत्युत्कृष्टं जानाति । येन हेतुनारुन्धतीपतिरपि वसिष्ठोऽपि स्वेनात्मना नोऽस्मानेतावदर्थम् । यद्वानुग्रहखरूपक्रियाविशेषणम् । अनुगृह्णाति। यज्वान इत्यत्र 'सुयजो निप्' । राजन्वतीत्यत्र 'राजन्वान्सौराज्ये' इति निपातनान्नलोपाभावो वत्वं च । 'उगितश्च' इति डीप् । अनुगृह्णातीत्यत्र 'ऋवर्णाच' इति णत्वम् । 'बर्हिर्मुखाः क्रतुभुजः' इत्यमरः । 'यज्वा तु विधिनेष्टवान्' 'सुराज्ञि देशे राजन्वान्' इत्यपि । 'गोत्रं नाम्नि कुलेऽपि च' इति विश्वः। 'आखण्डल: सहस्राक्षः' इत्यमरः । अनुभावः प्रभावः । तादृशाय यशसे । अलमित्यध्याहार्यम् । वयं वसिष्टादयः। केवलं यशसे यशोर्थमुपदेष्टारः वसिष्ठादिष्टार्थानुष्ठानार्थ वसिष्ठस्यैवाप्तत्वं द्रढयितुमाह-उन्मुद्रयतीति । शरदो निशा रात्रिस्तया निशातस्तेजितः । प्रसन्नीकृत इति यावत् । अत एव निस्तुषो मेघाद्यनावृतः। निर्मल इति यावत् । शरनिशानिशातनिस्तुष इति समासः । पश्चान्ना समासेऽशरनिशानिशातनिस्तुषोऽपि तुषारकिरण: शीतरश्मिः कुमुदाकरं कैरवसमूहं कैरवस्थानं वा उन्मुद्रयति प्रकाशयति । शारदशुक्लपक्षे कुमुदप्रबोधवर्णनमिति कविसंप्रदायः। स पुनर्वसिष्टो द्वितीयपरमेष्ठी द्वितीयब्रह्मा किमुच्यते । अपि तु स सर्वाधिकोऽवश्यं कुमुदाकरं प्रकाशयत्येव । कोः पृथिव्या मुद्धर्षः कुमुत्, तस्या आकरः स्थानं दशरथस्तम् । कीदृशो बसिष्ठः । शरत्संवत्सरस्तस्य निशायां निशातः प्रबुद्धः शरनिशानिशातः, न शरनिशानिशातोऽशरनिशानिशातः। ध्यानाश्रयत्वात् । ततो निस्तुषो निर्मल: पापशून्यत्वात् । द्वयोः कर्मधारयः । इदं तु कुमुदाकरं नाम वृत्तम् । 'एकादशभिर्वर्णैरष्टादशभिःक्रमादुभौ पादौ । तत्कुमुदाकरवृत्तं चरमौ तु दशाक्षरौ यस्य ॥' द्वितीयपाठे छन्दोविरोधश्चिन्त्यः । 'आकरः श्रेष्ठनिवहावुत्पत्तिस्थानमाकरे' इति
१. 'नो भगवती' इति पाठान्तरम्. २. 'केवलमुपदेष्टारो वयम्'; 'केवलं वयमु. पदेष्टारः' इति पाठान्तरम्.
For Private and Personal Use Only