________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२३
१ अङ्कः]
अनर्घराघवम् । दशरथः-वामदेव, मम हि गुरुवचनश्रवणतृष्णामङ्कुशीकरोति श्रोत्रवृत्तिरिन्द्रियान्तरानुसारिणो हृदयमहागजस्य । तेन्न किंचिदपरमव. शिष्यते ।
वामदेवः-महाराज, निःशेषमभिहितम् । इमां तु सर्वसंदेशसंग्रहकारिकां कारिकामतिप्रयत्नेन भगवान्भवन्तमनुस्मारयति ।
दशरथः—(सादरम् ।) अवहितोऽस्मि । किमाज्ञापयति ।
वामदेवः
हुतमिष्टं च तप्तं च धर्मश्चायं कुलस्य ते ।
गृहात्प्रतिनिवर्तन्ते पूर्णकामा यदर्थिनः ॥ १७ ।। दशरथः- (सहर्षम् ।) सुष्ठु शिरसि कृतमाचार्यवचनम् । किं च ।
वस्तूपमा मता ॥' मम हीत्यादि । मम हृदयस्य मनसः श्रोत्रवृत्तिः श्रवणव्यापारो गुरुवचनश्रवणतृष्णामभिलाषमङ्कुशीकरोति । अङ्कुशं कृत्वा मन आकर्षतीत्यर्थः । कीदृशस्य मनसः । इन्द्रियान्तरानुसारिण इन्द्रियान्तरानुसरणशीलस्यापि मनसः सकलेन्द्रियसंवन्धशालित्वात्तृष्णा मच्चित्तमिन्द्रियान्तरादाच्छिद्य श्रोत्रलग्नं करोतीति भावः। 'हि हेताववधारणे' इति । अवशिष्यत इत्यत्र 'शिषु विशेषणे' कर्मणि लट् । यद्वा 'शास इदहलोः' इतीत्वम् । संग्रहः संक्षेपः । कारिका श्लोकः । 'कारिका तु कृतौ श्लोके' इति विश्वः । अनुस्मारयत्यवगमयति । न केवलं मदनुशासना. देव त्वयैवं वक्ष्यमाणं कर्तव्यं किंतु भवत्कुलायातोऽप्ययं धर्म इत्याह-हुतमित्यादि । हुतं होमः । देवतोद्देशेन वह्नयादौ हविस्त्यागः । इष्टमग्निहोत्रादि । तप्तं तपः । अयं तव वंशस्य धर्मः स्वभावः । यच्चार्थिनः प्रार्थकाः पूर्णकामाः संपूर्णेच्छाः सन्तस्तव गृहात्प्रतिनिवर्तन्ते प्रतिनिवृत्ता भवन्ति । सोऽपि भवत्कुलधर्म एव । अनेन रामप्रार्थनासाफल्यं सूचितम् । 'अग्निहोत्रं तपश्चैव वेदाभ्यासस्तथैव च । आतिथ्यं वैश्वदेवं च इष्टमित्यभिधीयते ॥' इति स्मृतिः । 'कामः पुंसि स्मरेच्छयोः' इति शाश्वतः । 'सुष्ठ प्रशंसने' इत्यमरः । हुतमित्यादिवाक्यस्य तात्पर्य विषयीभूतरामचन्द्रप्रदानजन्यविश्लेषजन्यदुःखाविमर्षणात्सामान्यतो वसिष्ठानुशासनत्वेन हर्षमाविष्करोति-अस्मदित्यादि । अद्य रविः सूर्यः क्रतुभुजां देवानामाद्यः प्रथमः । श्रेष्ठ इति यावत् । अस्मद्गोत्रमहत्तरो रघुवंशवृद्धः । यद्वा देवानामाद्यो रविरद्यास्मद्गोत्रमहत्तरोऽतिमहत्त्ववान् ।
१. 'अङ्कुशयति' इति पुस्तकान्तरपाठः. २. 'तत्किमपरमवशिष्यते'; 'तन्न किंचिदवशिष्यते' इति पाठ:. ३. 'किमाज्ञापयन्ति गुरव इति' इति पाठान्तरम्.
For Private and Personal Use Only