________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१ अङ्कः]
अनर्घराघवम् ।
अपि च ।
इदं वो याज्यानामुदितमुदितं यत्कुलमभू__ यदिष्टं वा कुर्वन्नकृत सगरः पूर्तमुदधिम् । असौ पूर्वेषां ते सुचरितपताका यदमर
___ स्रवन्ती कृत्स्नोऽयं त्रिभुवनगुरोस्तस्य विभवः ॥ २० ॥ किं च ।
कौशिकखीकृतस्यापि यदाज्ञातिक्रमादभूत् । त्रिशङ्कोरुपभोगाय न द्यौरपि न भूरपि ॥ २१ ॥
धरणिः निशातेति 'शो तनूकरणे' क्तः । 'परमेष्ठी पितामहः' इत्यमरः । वसिष्ट इति पदेन तेजखित्वमुक्तम् । ननु वसिष्ठस्य द्वितीयपरमेष्ठित्वेऽपि किमायातमस्माकमिति दशरथवचनमाशङ्कयाह-इदमिति । अयं कृत्स्नः सकलस्तस्य त्रिभुवनगुरोस्त्रिलोकीमान्यस्य वसिष्ठस्य विभवः प्रभावः । किमित्याह-वो युष्माकं याज्यानां कुलमिदमुदितमत्यर्थ प्रथितम् । यद्वा उदितमुदययुक्तम् । मुदितं हृष्टम् । पश्चात्कर्मधारयः । अभूदिति भूतसामान्यविवक्षायां लुङ् । यच्च इष्टं यागं कुर्वन्सगरो राजा उदधिं समुद्रं पूते खातमकृत कृतवान् । यच्चासावमरस्रवन्ती देवनदी गङ्गा तव पूर्वेषां भगीरथस्य सुचरितपताका । शोभनव्यापारवैजयन्तीत्यर्थः । तथा च वसिष्ठादेशः सर्वथा कर्तव्य इति भावः । 'पूर्त त्रिषु पूरिते स्यात्क्लीबं खातादिकं मतम्' इति मेदिनीकरः । 'पताका वैजयन्ती स्यात्' इति च । 'स्रवन्ती निम्नगापगा' इत्यमरः । 'पुभूम्नि पूर्वजेषु स्यात्पूर्वः प्रागाद्ययोस्त्रिषु' इति धरणिः । एतावतापि तस्याज्ञान्यथाकरणे त्रिशङ्कुदृष्टान्तेन त्रासयन्कौशिकप्रवेशसूचनामाह-किं चेति । यस्य वसिष्ठस्याज्ञातिकमात्कौशिकखीकृतस्यापि विश्वामित्रानुमतस्यापि त्रिशङ्कोरुपभोगार्थम् । तादर्थ्य चतुर्थी । न द्यौरपि स्वर्गोऽपि, न वा भूः पृथिव्यप्यभूदित्यर्थः । पुरा किल त्रिशङ्कुः क्षत्रियो राजा खदेहेन खर्ग गन्तुकाम इष्टिं कर्तुं वसिष्ठं वृतवान् । स तेन परिहृतः । पश्चात्तत्पुत्रांस्तदर्थ वृतवान् । तैरपि त्यक्तः। ततः कौशिकमुनिमनुगतं वीक्ष्य चण्डालत्वेनाभिशप्तः। ततोऽस्यैवंविधस्यापि यज्ञारम्भे देवगणानामामत्रणेऽप्यनागमनादन्यथा सृष्टिं कुर्वन्कौशिको ब्रह्मणा प्रसादितस्त्रिशङ्कु खपुण्यभागेन स्वर्ग प्रेषितवान् । ततश्चाण्डालोऽपि स्वर्गमधिरोहतीत्यनहतयेन्द्रेण हुंकारकरणात्तस्मात्पातितो द्यावापृथिव्योरन्तराले स्थितः-इति पुराणे व्यक्तम् । 'त्रिशङ्कुर्नी राजभेदे शलभे वृषदंशके। तुरुष्कसिलके म्लेच्छजातौ देशान्तरेऽपि च॥' इति विश्वः।प्रविश्य प्रतीहारीति। तल्लक्षणं तु 'संधिविग्रहसंबन्धं नानाचारमुपस्थितम् । निवेदयन्ति याः कार्य प्रतीहार्यस्तु ता मताः॥'इति।द्वारमध्यास्त इति 'अधिशी
For Private and Personal Use Only