________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
काव्यमाला ।
(नेपथ्ये गीयते ।) दिणअरकिरणुक्केरो पिआअरो को वि जीअलोअस्य ।
कमलमउलंकवालीकिअमहुअरकडणविअड्डो ॥ १३ ॥ सूत्रधारः—(आकर्ण्य ।) कथमुपक्रान्तमेव नर्तकैः, यदियं दशरथोसङ्गादामभद्राकर्षिणो विश्वामित्रस्य प्रावेशिकी ध्रुवा । (पुरोऽवलोक्य ससंभ्रमम् । अये, कथमत्रैव तत्रभवतः कमलयोनिजन्मनो मुनेरायतनात्प्रतिनिवृत्तेन ऋत्विजा वामदेवेन किमपि तद्वाचिकमभिधीयमानो महाराजो दशरथस्तिष्ठति । तदेहि । न द्वयोस्तृतीयेन भवितव्यमित्यावामप्यनन्तरकरणीयाय सज्जीभवावः । (इति निष्क्रान्तौ ।)
प्रस्तावना ।
र्यशः, सौरभ्यं सौगन्ध्यम् , यशः सुगन्धीति कविसंप्रदायसिद्धम् । यथा तस्यैव श्वेतत्वम् । प्रशस्तिरिति ‘क्तिच्क्तौ च संज्ञायाम्' इति तिच् । सौरभ्यं स्यात्तु सौगन्ध्ये सौभाग्ये गुणगौरवे । ख्याततायां मनोज्ञत्वे सौरभ्यं प्रवदन्ति हि ॥' इति विश्वः । 'प्रशस्तिश्च प्रशंसायां कीर्तावपि निगद्यते' इति धरणिः । 'आहावस्तु निपानं स्यादुपकूपजलाशये' इत्यमरः ॥
नेपथ्य इति । रङ्गभूमेबहिस्थानं यत्तन्नेपथ्यमुच्यते' इति भरतः । 'नेपथ्यं वर्णिका क्षितिः' इति च । अधुना नृत्योपक्रमव्याजेन प्रथमाङ्कस्य पर्यवसितमर्थ सूचयन्ध्रुवामाह-दिणअरेति । 'दिनकर किरणोत्करः प्रियाकरः कोऽपि जीवलोकस्य । कमलमुकुलाङ्कपालीकृतमधुकरकर्षणविदग्धः ॥' [इति च्छाया ।] दिनकरकिरणोत्करः सूर्यतेजःसमूहः । अस्तीति शेषं दत्त्वा योज्यम् । कीदृशः । जीवलोकस्य प्राणिवर्गस्य कोऽप्यनिर्वचनीयः प्रियाकरः प्रियकारकः कमलमुकुलेनेषद्विकसितकमलकलिकयाङ्कपालीकृतः क्रोडीकृतो यो मधुकरो भ्रमरस्तस्य कर्षणे बहिःकरणे विदग्धः कुशलः । ते. जःसंबन्धेन कमलदलप्रकाशात् । 'अङ्कपाली परिरम्भः' इति मेदिनीकरः । प्रिया. कर इत्यत्र 'सुखप्रियादानुलोम्ये' इति डाच् । 'विदग्धश्चतुरे खिङ्गे नागरे कुशलेऽपि च' इति विश्वः । अधुना दिणअरेत्यादि गाथया सूचितमर्थ प्रकटयति-यदियमिति। उत्सङ्गः कोड: । प्रादेशिकी प्रवेशसूचिका । ध्रुवा गीतिभेदः । तथा च भरत:-'धुवा तु गीतिभेदोऽयं वृन्दसामा(?) निबध्यते' इति । सा च पञ्चधा । तथाहि.-'प्रावेशिकी निष्कामणी परिकामण्यवस्थितिः । उत्थापनी तु पञ्चम्या ध्रुवा नाट्यार्थसिद्धये ॥ तत्र
१. एकस्मिन्मूलपुस्तके 'नद्वयोस्तृतीयेन भवितव्यमिति निष्क्रान्तौ' इत्येतावदेव पाठः. भाति चायमेव पाठष्टीकाकारसंमतः. अस्माभिस्तु बहुपुस्तकानुरोधेन 'इत्यावामप्यनन्तरकरणीयाय सज्जीभवावः' इत्यधिकः पाठः स्वीकृतः.
For Private and Personal Use Only