________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१ अङ्कः] अनर्घराघवम् ।
२१ (ततः प्रविशति यथोपदिष्टो दशरथो वामदेवश्च ।) दशरथः-अहो, बहुधा श्रुतमपि भगवतो वसिष्ठस्यानुशासनं नवं नवमिव प्रमोदयति माम् । वामदेवःमधुकैटभदानवेन्द्रमेदःप्लवविस्रा विषमैव मेदिनीयम् । अधिवास्य यदि स्वकैर्यशोभिश्चिरमेनामुपभुञ्जते नरेन्द्राः ॥ १४ ॥
प्रावेशिकी ज्ञेया प्रवेशे गानयोगतः ॥' अनया सूचनापि वृत्ता । 'असूचितस्य पात्रस्य प्रवेशो नैव युज्यते' इति भरतः । ससंभ्रमं सादरम् । अये इति सानुनये संबोधने । कमलयोनिब्रह्मा ततो जन्म यस्य तस्य वसिष्ठस्यायतनादाश्रमाकिमपि रहस्यं तस्य वाचिकं तद्वाचिकम् । 'संदेशवाग्वाचिकं स्यात्' इत्यमरः । एह्यागच्छ । न द्वयोस्तुतीयेनेति 'षट्कर्णो भिद्यते मत्रः' इत्यभिप्रायादिति । निष्कान्तौ। नटसूत्रधाराविति शेषः । प्रस्तावना । निर्वर्तितेति शेषः। प्रस्तावनालक्षणं तु भरते-'नटी विदूषको वापि पारिपार्श्वक एव वा। सूत्रधारेण सहिताः संलापं यत्र कुर्वते॥ चित्रैर्वाक्यैः खकार्योत्थैर्वीथ्यकैश्चापि नाटके । प्रस्तावना हि सा ज्ञेया प्रकृतार्थोचितं वचः॥' इति । अयमेव पूर्वरङ्गः। 'पूर्वरङ्गः सभापूजा कवेर्गोत्रादिकीर्तनम् । नाटकादेस्तथा संज्ञा सूत्रधारोऽप्यथो मुखम् ॥ गीतिक्रिया च वाद्यं च वर्णिकाग्रहणं तथा । धृतिर्जवनिकायाश्च पूर्वरङ्गश्चतुर्विधः ॥' इति ॥
दशरथः किंचित्तद्वाचिकामृतपानसंजातहर्षस्तत्प्रस्तौति-अहो बहुधेति । बहुधा बहुवारम् । 'संख्याया विधार्थे धा' इति धाप्रत्ययः । अनुशासनमाज्ञा एव । वसिठवचनस्य राज्ञाविष्कारः कृतः । वसिष्ठ इति दन्त्यमध्यः । वसु तेजस्तद्यस्यास्तीति स वसुमान् । तस्मादिष्ठनि कृते ‘विन्मतो:-' इति मतोरुकारस्य च लोपे धातुपारायणे साधितत्वात् । अत एव 'प्रसृतासनानुवासनवसिष्ठरसविसोढविस्रब्धाः ' इति गदसिंहः । आश्चर्यमञ्जयों तु श्लेषानुरोधेन वशिष्ठ इति तालव्यशकारो दर्शितः । प्रमोदयति हृष्टं करोति । अनुशासनमेवाह---मध्वित्यादि । इयं मेदिनी पृथिवी विषमैव दुःसाध्यैव । यद्वा अनुपभोग्यैवास्ति । कीदृशी । मधुश्च कैटभश्चेति द्वन्द्वः । तयोर्दानवेन्द्रयोर्मेदसो वसायाः प्लवेन प्रोक्षणेन पूरणेन वा विस्रा आमगन्धवती अत एवाशक्यभोग्या नरेन्द्रा राजनः खकैर्यशोभिरधिवास्य धूपयित्वा यद्येनां पृथिवीमुपभुञ्जते तदा परमुपभुञ्जते, नो चेदुपभुञ्जत एव नेत्यर्थः। तथा च भवन्तोऽपि यशोभिरधिवास्य भुवमुपभुञ्जन्तामिति भावः । तथा चोक्तम्-'यशोधना हि राजानः' इति । मेदोयोगान्मेदिनीत्युचितं नाम । पृषोदरादित्वात्साधुः । 'स्यान्मेदस्तु वपा वसा' इत्यमरः । 'विस्रं स्यादामगन्धि यत्' इत्यपि 'प्लवः स्यात्प्लवने भेके' इति । 'अधिवासो निवासे स्यात्संस्कारे धूपनादिभिः' इति मेदिनीकरः । यशःसुगन्धिता कविसंप्रदायः । उपभुजत इति 'भुजोऽनवने' इति तङ् ।
अन०३
For Private and Personal Use Only