________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अनर्घराघवम् । नटः-(सहर्षम् ।) भाव, तत्प्रस्तूयताम् । अस्य हि मौद्गल्यानां ब्रह्मKणामन्वयमूर्धन्यस्य मुरारिनामधेयस्य बालवाल्मीकेर्वाङ्मयममृतबिन्दुनिप्यन्दि कन्दलयति कौतुकं मे। सूत्रधारः-मारिष, स्थाने भवतः कुतूहलमीदृशमेवैतत् । तथाहि ।
तत्तादृगुज्वलककुत्स्थकुलप्रशस्ति
सौरभ्यनिर्भरगभीरमनोहराणि । वाल्मीकिवागमृतकूपनिपानलक्ष्मी
मेतानि बिभ्रति मुरारिकवेर्वचांसि ॥ १२ ॥ लजाटचौ बहुभाषिणि' इति सूत्रेण योगक्भिागात्प्रशंसायामप्यालजाटचावित्याहुः । अयं च रङ्गवर्तिनावश्यं पटनीयः श्लोकः । यदाह भरत:-'श्लोकं पठेदेकम्' इति । 'शृङ्गाटकं भवेद्वारिकण्टके च चतुष्पथे' इति मेदिनीकारः । 'स्याजल्पाकस्तु वाचाल:' इति विहारिणीमित्यत्र ताच्छीलिको णिनिः । मौद्गल्यानामित्यत्र 'तद्राजस्य बहुषु तेनैवास्त्रियाम्' इति यत्रो न लुक् । एकशेषेण तत्कृतबहुत्वाभावात् । ऋषय इव ब्राह्मणा ब्रह्मर्षयः। अन्वयो वंशः । मूर्धन्यः श्रेष्ठः । 'मूर्धन्यः स्याच्छिरोभूते प्रधाने श्रेष्ठसंज्ञिते' इति विश्वः । 'नामधेयं च नाम च' इत्यमरः । बालश्चासौ वाल्मीकिश्चेति समासः । बालपदेन पुराणवाल्मीके दः । वाङ्मयं कर्तृ, वाङ्मयं वचनविकारो नाटकम् । विकारार्थे 'नित्यं वृद्धशरादिभ्यः' इति मयट् । कन्दलयत्यङ्कुरयति । इह कन्दलोऽङ्करं तदस्यास्तीति कन्दलवांस्तं करोतीति 'तत्करोति तदाचष्टे' इति णिच् । ‘णाविष्ठवत्प्रातिपदिकस्य' इतीष्टवद्भावात् 'विन्मतो क्' इति मतुपो लुक् । स्थाने युक्तम् । अव्ययोऽयं स्थानेशब्दः। 'युक्तार्थे सांप्रतं स्थाने' इति विश्वः । सप्तम्यन्तमेव वा । स्थाने विषये । 'कुतुकं तु कुतूहलम्' इत्यमरः । तत्तादृगिति । एतानि मुरारिकवेर्वचांसि वाल्मीकेर्यद्वागेवामृतं तस्य यः कूपस्तस्य निपानलक्ष्मी कूपसमीपस्थेष्टकादिवद्धखल्पजलाशयशोभां बिभ्रति दधति । अयं भावः यथा कूपान्यूनं निपानं तथा वाल्मीकिवचनेभ्यः किंचिन्यूनानि मुरारिवचनानी. ति । कीदृशानि । तत्प्रसिद्ध तादृगपूर्वगुणवदुज्वलं पवित्रं यत्ककुत्स्थकुलं ककुत्स्थः सूर्यवंशे राजविशेषस्तस्य कुलं तस्य प्रशस्तिः प्रशंसा तस्याः सौरभ्यं ख्यातत्वं मनोज्ञत्वं वा, तेन निर्भरमतिशयेन गभीराणि मनोहराणि चेति कर्मधारयः। अथवा प्रशस्ति
१. मूलपुस्तकेषु 'मौद्गल्यायनानाम्' इति पाठः. २. केषुचिन्मूलपुस्तकेषु 'तत्तादृगु. ज्ज्वल-' इत्यादि श्लोकादग्रे 'अपिच । देवीं वाचमुपासते हि बहवः' इत्यादि श्लोको दृश्यते, स च प्रक्षिप्त इति ज्ञेयम्. अत एव टीकाकर्ता न स्वीकृतः. अस्माभिस्त्वयं लोको ग्रन्थारम्भे टिप्पण्यां मुरारिकविप्रशंसाश्लोकेषु लिखितः.
For Private and Personal Use Only