________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
काव्यमाला।
धातुश्चतुर्मुखीकण्ठशृङ्गाटकविहारिणीम् । नित्यं प्रगल्भवाचालामुपतिष्ठे सरस्वतीम् ॥ ११ ॥
मुनि वन्दे नौमि । कीदृशम्। वाचां मनुष्यलोकप्रवेशे विश्रामवृक्षम् । तथा सुरलोकात्स्वर्गाद्योऽवतारोऽर्थाद्वाचामेव । इदं च काकाक्षिन्यायेनोभयान्वयि । तेन यः प्रान्तरे दूरशून्यवर्मनि क्लेशस्तस्य च्छेत्तारमित्यर्थः । ब्रह्मलोकादवतरन्ती वाणी वाल्मीकिवृक्षेऽत्यायासवशाद्विश्रम्य मनुष्यलोकमविशदिति भावः । ननु मनुष्यलोकप्रवेश इति कथं समासः । तथा हि 'कर्तृकर्मणोः कृति' इति षष्ट्या न भवितव्यम् । वाचां कर्मणां मनुष्यलोकस्य कर्मणः प्रवेशक्रियायां सत्त्वात् , न च 'उभयप्राप्तौ कर्मणि' इति षष्टीति वाच्यम् । तर्हि 'कर्मणि च' इति समासनिषेधापत्तेः । एवं वाचामित्यत्रापि षष्टी न युक्ता 'उभयप्राप्तौ कर्मणि' इति नियमेन कर्मण्येव षष्ठीविधेः कर्तरि तदसंभवादिति । उच्यते-मनुष्यलोके प्रवेश इति 'सप्तमी-' इति योगविभागात्समासः । वाचामित्यत्र तु संबन्ध एव षष्टी । वारसंबन्धी प्रवेश इत्यर्थात् । नियमश्च प्रायिक इति न्यासकार इति दिक् । ननु विश्रामेत्यत्र 'श्रमु तपसि खेदे च' इति धातोर्विपूर्वाद्धजि कृते 'नोदात्तोपदेशस्य-' इति बृद्धिनिषेधे विश्रम इति स्यात् । मैवम् । 'चौ श्रमः' इति महाभाष्यवचनाद्विपूर्वादपि श्रमेवृद्धिः । अत एव चान्द्रव्याकरणे विश्राम एव साधितः । वाचामित्यभ्यर्हितत्वाद्बहुवचनम् । 'ऋषिदे मुनौ रश्मौ' इति विश्वः । 'प्रान्तरं दूरशून्योऽध्वा' इत्यमरः । खेदच्छिदमिल्यत्र 'सत्सूद्विष-' इति क्विम् । इदानीं काव्ये प्रवृत्तत्वात्काव्यस्य शब्दार्थरूपत्वात्तस्य चासाधारणदेवतात्वात्सरखतीं नौति-धातुरिति । सरखतीमपतिष्टे यजामि संगतीकरोमि वा । 'उपाद्देवपूजा-' इति नङ् । कीदृशीम् । धातुब्रह्मणो या चतुर्मुखी । चतुर्णा मुखानां समाहारश्चतुर्मुखी तम्या ये कण्ठास्त एव शृङ्गाटकानि चतुष्पथानि तेषु विहारिणी विहरणशीलाम् । यद्वा चत्वारि मुखानि यस्यां तनौ सा चतुर्मुखी तनुः । विशेषणद्वारैव विशेष्यलाभः प्रायो दृश्यते । यथा 'निधानगर्भामिव सागराम्बराम्' इत्यत्र सागराम्बरत्वेन पृथिव्या एवान्वयः। तथा चतुर्मुखयोगाद्ब्रह्मतनोरेव प्रतीतिः । तस्या ये कण्टास्त एव शृङ्गाटकानि तत्र विहारिणीम् । न च प्रथमव्याख्याने पात्रादिपाठादत्र क्लीवत्वं स्यादिति वाच्यम् । तद्विधेरनित्यत्वात् । यद्वा अल्पार्थे डीप् । यथा मृणाली मण्डपीत्यादि । पुनः कीदृशीम् । नित्यं प्रगल्भा नित्यप्रगल्भा । 'द्वितीया' इति योगविभाना समासः । नित्यप्रगल्भा च वाचाला च ताम् । बहुभाषिणीमित्यर्थः । 'आलजाटचौ बहुभाषिणि' इत्यालज्विधानात् । ननु बहुभाषित्वेन सरस्वत्याः का स्तुतिरिति चेन । सरखल्याश्चतुर्मुखविहारित्वेन पण्यस्त्रीवरूपणात्ताश्च प्रगल्भमेव वदन्ति । तथा च खकर्मानुष्टातृत्वात्स्तुतिरेव । यद्वा वाचां लायादत्ते सा वाचाला । 'टापं चापि हलन्तानाम्' इति वचनाद्वाचाशब्दस्य सत्त्वात्तस्मिन्कर्मण्युपपदे 'आतोऽनुपसर्गे कः' इति कप्रत्ययं कृत्वा रूपमेतदिति सर्व सुस्थम् । अपरे तु वाचालामुत्कृष्टभाषिणीम् । 'आ
For Private and Personal Use Only