________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१ अङ्कः
अनर्घराघवम् । अयं तु प्राचेतसीयं कथावस्तु बहुभिः प्रणीतमपि प्रयुञ्जानो नापराध्यति श्रोत्रियपुत्रः । पश्य ।
यदि क्षुण्णं पूर्वैरिति जहति रामस्य चरितं ___ गुणैरेतावद्भिर्जगति पुनरन्यो जयति कः । खमात्मानं तत्तद्गुणगरिमगम्भीरमधुर
स्फुरद्वारब्रह्माणः कथमुपकरिष्यन्ति कवयः ॥ ९ ॥ उपक्रममाणश्च स कविः खनिर्भासशब्दब्रह्माणमाचार्य प्राचेतसं गिरं च देवतामेवमुपश्लोकितवान् ।
तमृषि मनुष्यलोकप्रवेशविश्रामशाखिनं वाचाम् ।
सुरलोकादवतारप्रान्तरखेदच्छिदं वन्दे ॥ १० ॥ तयश्च' इति क्तिनन्तो निपातः । दिव्या इत्यत्र 'दिगादिभ्यो यत्' । फलति स्मेति 'लट स्मे' इति भूते लट् । ननु वाल्मीकीयमपि बहुभिरनेकदा पिष्टमेव, तत्कथं पिष्टपेषणमेव क्रियत इत्यत आह-अयं त्विति । अयं तु मुरारिकविः। प्राचेतसीयमिति।प्रचेतसोऽपत्यमित्यणि कृते प्राचेतसो वाल्मीकिस्तस्येदमित्यर्थे वृद्धाच्छः । कथा काव्यशरीरं तस्य वस्तु पदार्थो रामायणं वहुभिः कृतमपि कुर्वश्रोत्रियदछन्दोध्येता । जन्मसंस्कारविद्यावान्वा । तस्य पुत्रो नापराध्यति नापराधवान्भवति । श्रोत्रिय इति 'श्रोत्रियंच्छन्दोऽधीते' इति व्याकरणे साधु । लक्षणान्तरं च-'जन्मना ब्राह्मणो ज्ञेयः संस्कारैर्द्विज उच्यते। विद्यया याति विप्रत्वं त्रिभिः श्रोत्रिय उच्यते ॥' अपराधाभावे हेतुमाह-यदीत्यादि । पूर्वैर्वाल्मीकिप्रभृतिभिर्मुनिभी रामस्य चरितं क्षुण्णमिति कृत्वा यद्याधुनिका जहति त्यजन्ति तदा तत्तद्गुणानां धैर्यादीनां गरिम्णा गौरवेण गम्भीरमनुत्तानं मधुरं मनोहरं स्फुरद्दीप्यमानं वाग्रूपं ब्रह्म येषां ते कवयः कथं खं खीयमात्मानमुपकरिष्यन्ति प्रसिद्धिं नेष्यन्ति। ब्रह्मद्वयं शब्दब्रह्म परं ब्रह्म च। तदुक्तम्-'शब्दब्रह्मणि निष्णातः परं ब्रह्माधिगच्छति' इति । अथ तथापि कश्चिदन्यस्तादृशो भविष्यतीत्यत आह-गुणैरिति। एतावद्भिर्गुणैर्नानागुणै रामादन्यः कः पुनर्जगति संसारे जयति । अपि तु न कोऽपि । तथा च रामचरितं प्रयुञ्जानो नापराध्यति श्रोत्रियपुत्र इति प्रकटितमिति भावः । उपक्रममाण आरभमाणः । 'उपपराभ्याम्' इति तङ् । स्वेनात्मना निर्भासत आविर्भूय प्रकाशते खनिर्भासम् । पचाद्यच् । शब्दब्रह्म यत्र तम् । शब्दब्रह्मण: प्रकाशता विस्तरभयादुपेक्षिता । प्राचेतसं वाल्मीकिम् । गिरं देवतां वाणीरूपां देवीं सरस्वतीमुपश्लोकितवाञ्श्लोकैः स्तुतवान् । श्लोकेन स्तौतीत्यर्थे 'सत्यापपाश-' इति णिच् । 'उपश्लोकस्तु निन्दायां कथितः संस्तुतावपि' इति धरणिः । अधुना काव्यनिदानत्वान्मुनि कविः प्रणमति–तमिति । तमृषि
For Private and Personal Use Only