________________
Shri Mahavir Jain Aradhana Kendra
१६
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
काव्यमाला ।
द्वय रसपाठगीतिगतिषु प्रत्येकमुत्कर्षिणो मौद्गल्यस्य कवेर्गभीरमधुरोद्वारा गिरां व्यूतयः । वीरोदात्तगुणोत्तरो रघुपतिः काव्यार्थबीजं मुनि
वाल्मीकिः फलति स्म यस्य चरितस्तोत्राय दिव्या गिरः ॥ ८ ॥
तेषु प्रत्येकमेकैकश एव उत्कर्षवन्तः । यद्वा रसादीनां गतिर्ज्ञानं तत्रोत्कृष्टाः । ननु रसपाठादयोऽप्याश्रयोत्कर्षादेवोत्कर्षिणो भवन्त्यत आश्रयोत्कर्षमाह - मौद्गल्यस्येति । मौद्गत्यस्य मुद्गलगोत्रसंभवस्य मुरारेः कवेः गिरां व्यूतयो विरचनाः । व्यूतिरिति प्रसिद्धा राशयो वा । गभीरोऽनुत्तानः । मधुरो मनोहरः । आभ्यामुदाराः । उद्भटा इति यावत् । 'राशिर्व्यूतिः स्त्रियौ तुल्ये' इति शाश्वतः । निर्गुणनायके कवित्वोत्कर्षोऽपि वृथा भवतीत्याशङ्कायामाह -- वीरोदात्तेत्यादि । वीरः शूरः । उदात्तो महान् । गुणै राजगुणैरुत्तरो मान्यः । 'उदात्तो दातृमहतो:' इत्यमरः । यद्वा वीरोदात्तो नायकभेदस्तस्य गुणैरुत्तरः श्रेष्ठटो रघुपती रामः । तथा च यत्र रामो नायक इत्यर्थः । 'वीरोदात्तो वीरोद्धतः स्याद्वीरललितस्तथा । वीरप्रशान्त इत्येव चतुर्धा नायकः स्मृतः ॥ इति भरतः । तथा च वीरो - दात्तस्य गुणैरुत्तरः श्रेष्ठः । तत्र च ' महासत्त्वो दयायुक्तः क्षमावानविकत्थनः । स्थिरो निगूढाहंकारो वीरोदात्तो दृढक्रियः ॥ दर्पमात्सर्यभूयिष्ठो मायाच्छद्मपरायणः । वीरोद्धतो ह्यहंकारी ज्ञेयो रौद्रो विकत्थनः ॥ रूपयौवनसंपन्नो नानाक्रीडापरायणः । कलायुक्तः सुखी वीरललितश्चिन्तयोज्झितः ॥ सामान्यगुणसंयुक्तो नानावस्थः क्षमान्वितः । वीरप्रशान्त इत्येव निर्दिष्टो नाट्यवेदिभिः ॥' नायकोत्कर्षमेव पुनराह - काव्यार्थबीजमि - त्यादिना गिर इत्यन्तेन । काव्यार्थबीजमिति मुनिविशेषणम् । काव्यं कविकर्म नाटकादि तस्यार्थोऽभिधेयो रामायणं तस्य बीजमुत्पत्तिहेतुर्यत इति वाल्मीकिर्यस्य रघुपतेश्चरितस्तोत्राय दिव्या दिवि भवा गिरः फलति स्म । केचित्तु काव्याभिधेयो रामायणं तस्य बीजं प्रधानमुद्देश्यं श्रीराम एव यस्य रामस्य चरितवर्णनाय वाल्मीकिनामा मुनिदिव्या गिरो वाणीः फलति स्म प्रसूते स्मेति योजयन्ति । अयं तु श्लोकः प्ररोचना । यदाह रङ्गशेखरे ज्योतिरीश्वरः - ' प्ररोचनापि कर्तव्या पूर्वरङ्गार्थसिद्धये' । 'भावसिद्धिः प्ररोचना' इति नाट्यदर्पणे । यथा रत्नावल्याम् 'श्रीहर्षो निपुणः कविः' इत्यादि प्ररो - चना | मौद्गल्यस्येत्यत्र मुद्गलस्यापत्यमित्यर्थे 'गर्गादिभ्यो यज्' । यद्वा 'अत इज्' इत्यनेन इञि मौद्गलिशब्दादनन्तरापत्ये 'वृद्धेत्कोसलाजादाञ्यङ्' इति ञ्यङ्, न च तत्र क्षत्रियादित्यनुवृत्तेः कथं मौद्गलिशब्दाञ्ञ्यङिति वाच्यम् । मुद्गलो हि पूर्व क्षत्रिय एवासीदिति पुराण एवं प्रव्यक्तम् । व्यूतिरित्यत्र वेञ्धातोः 'ऊतियूतिजूतिसातिहेतिकी१. ' स्यूतयः' इति केषुचित्पुस्तकेषु पाठः. २. सर्वत्र मूलपुस्तकेषु वीरोदात्त - ' इति पाठ: अन्यत्रापि वीरोदात्तादय एव नायकाः प्रसिद्धाः . अत्र तु केवलं टीकानुरोधेन 'वीरोदात्त -' इति पाठ: स्वीकृत:.
For Private and Personal Use Only