________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२६०
काव्यमाला।
अपि च ।
उद्यम्य दृष्टनिजपन्नगरत्नमात्रा
नस्त्राणि चन्दनतरूनुपरि भ्रमन्तः । द्यां ज्योतिरिङ्गणमयीमिह मेघनाद
मायातमोपलपितां कपयो वितेनुः ॥ ६ ॥ सीता-अजउत्त, अवि इध जेव्व भुअंगपासबन्धणं सीदाए अणुहाविदा तुझे। रामः---आं मैथिलि, आम् ।
चर्वितपीनाहिगणष्ठणिति विनिष्ठयूतफणिमणिरभीक्ष्णम् ।
धैनबन्धनवैधुर्य व्यधुनोदिह नौ स विहगेन्द्रः ॥ ७ ॥ (विमृश्य संस्मितम् ।) अहो वैषम्यमस्या जातेः।
द्वे तावत्करणे रसान्रसयितुं शब्दांश्च रूपाणि च
श्रोतुं द्रष्टुमथैकमिन्द्रियमुरोगत्यै निगूढं पदम् । साहस्रास्ते सहस्रिणः' इत्यमरः । उद्यम्येति । इह लङ्कायां मेघनादस्य मायातमो मायोपदर्शितान्धकारस्तेनापलपिता आच्छादिताः कपयो ज्योतिरिङ्गणमयीं खद्योतव्याप्तामिव द्यामाकाशं वितेनुर्विस्तारयामासुः । कीदृशाः । चन्दनतरूनस्त्राण्युद्यम्योत्तोल्योपरि भ्रमन्तः । कीदृशान् । दृष्टा निजा खीया पन्नगरत्नानां मात्राल्पत्वं कास्ने वा यत्र तान् । तथा च चन्दनवृक्षस्थसपाणां मणिप्रभाभिर्मेघनादमायान्धकारे ज्योतिरिङ्गणत्वमासादितम् । अन्योऽपि ज्योतिरिङ्गणोऽन्धकारे प्रसरतीति ध्वनिः । 'मात्राल्पे च परीमाणे' 'मात्रं कास्येऽवधारणे' इति विश्वः । अजउत्तेति। 'आर्यपुत्र, अपि इहैव भुजंगपाशबन्धनं सीतयानुभाविता यूयम्' [इति च्छाया।] इह अपिःप्रश्ने संभावनायां वा। 'आर्यपुत्रेति संबोध्यः पतिः पत्नीजनेन तु' इति भरतः । सीतयेति हेतौ तृतीया। आं स्वीकारे ज्ञाते वा । 'आं ज्ञातेऽथवा स्वीकारे' इति भरतः । आम्शब्दो हलन्तोऽयमव्ययः । चर्वितेति । इह स्थाने विहगेन्द्रः पक्षिराजो गरुडो नौ आवयोर्महद्वन्धनवैधुर्य बन्धनकष्टं व्यधुनोन्मोचितवान् । कीदृशः । चर्वितः खादितः पीन उपचितोऽहिगणो येन सः । 'चर्वितपीत-' इति पाठे चर्वितोऽनन्तरं पीतो द्रवीकृत्य पानविषयीकृतः । पुनः कीदृशः । अभीक्ष्णं वारंवारं ठणिति कृत्वा निष्ठयूत उद्गीर्णः फणिमणिर्येन सः । ठणादित्यव्यक्तानुकरणस्येति शब्दे परतः 'अव्यक्तानुकरणस्यात इतौ' इत्यत् शब्दस्य पररूपत्वम् । द्वे तावदिति । हे मातः कद्रु सर्पमातः, ईदृशान्सुतान्भूयः पुनरपि यदि भवती
१. 'तमोवलयिताम्.' २. 'ठगिति'. ३. 'अहिबन्धन-'. ४. 'नौ विहंगपूगेन्द्रः', 'नः स विहगेन्द्रः'. ५. 'सविस्मितम्'.
For Private and Personal Use Only