________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
७ अङ्कः]
अनर्घराघवम् ।
२५९
(ततः प्रतिशति विमानयानेन विजयाभिरामो रामः सीतालक्ष्मणौ सुग्रीवविभीषणौ च ।)
सुग्रीवः - ( रामं प्रति 1) देव,
किंकुर्वाणपयोधिसेवितगृहोद्यानाधुनालोक्यतां
लङ्केयं रघुवंशविक्रमकथाबीजप्ररोहस्थली । देवेनात्र दशाननस्य दशभिश्छिन्नैः शिरोभिः क्रमादेकैकेन शतं शतं शतमखस्यामोदिता दृष्टयः ॥ ४ ॥ रामः --- देवि वैदेहि, दृश्यतामितो लङ्कां पूर्वेण सुवेलं पश्चिमेन । त्वदर्थीयक्रव्यात्कपिकुलकबन्धव्यतिकरैः
करालेयं भूमिर्भुवनभयमद्यापि तनुते । अभूवन्नम्भोधेरिह रुधिरमय्यो युवतयः
सहस्रं साहस्रास्त्रिदिवयुवतीनां च पतयः ॥ ५ ॥
कुबेररथेन । स च पुरा रावणेन गृहीत इदानीं राघवेण लब्धः । 'एकैकानि शिरांसि ' इत्यादि श्लोकद्वयेन युग्मकम् । युग्मकलक्षणं तु — 'कुलकं बहुभिः श्लोकैः साकारेकवाक्यता । श्लोकाभ्यां युग्मकं ज्ञेयमेकार्थाभ्यां तु चुम्बकम् ॥' इति । किंकुवाणेति । किंकुर्वाणः किंकरः सेवकः । गृहोद्यानं गृहनिकटवाटिका । मुदे हर्षाय । विक्रमोऽतिशक्तिता । तत्कथया यद्वीजं तस्य प्ररोहस्थली जन्मभूमिः । अन्यदपि बीजं भूमौ प्ररोहतीति ध्वनिः । अत्र लङ्कायाम् । [ एकैकेन ] इन्द्रस्य शतं शतं दृष्ट्यो नेत्रसहस्रं रावणस्यैकैकेन शिरसा आमोदिताः इन्द्रस्य चक्षुषां दशशतानि प्रत्येकं रावणदशशिरोभिर्मोदितानीति भावः । एकेन शिरसा एकशतनेत्रस्य हर्षः । एवमपरेणापरस्येति क्रमः । लङ्कां पूर्वेण सुवेलं पश्चिमेनेत्यत्र 'एनबन्यतरस्यामदूरेऽपञ्चम्याः' इत्येनप् । ‘एनपा द्वितीया' इति द्वितीया । लङ्कायाः पूर्व सुवेलस्य च पश्चिममित्यर्थः । त्वदर्थोयेति । त्वमेवार्थः प्रयोजनं यस्य स त्वदर्थो रावणो रामश्च तस्मै हितं त्वदर्थीयम् । रावणस्य क्रव्यात्कुलं रामस्य कपिकुलं तेषां कबन्धव्यतिकरैः कबन्धमेलकैः कराला भयानका अतिदन्तुरा वा भूमिरद्यापि भुवनभयं तनुत इत्यन्वयः । इह भूमौ अम्भोधे रुधिरमय्यः सहस्रं युवतयो नद्योऽभूवन्भूताः । त्रिदिवयुवतीनामप्सरसां च पतयः स्वामिनः साहस्राः सहस्रपरिमाणा अभूवन् । सहस्रं परिमाणमेषां ते । ' शतमानविंशतिकसहस्रवसनादण्' । रणसंमुखं ये मृता वीरास्ते विद्याधरीभूता अप्सरः पतयो वृत्ता इति भावः । यद्वा साहस्राः सहस्रपुरुषबलाः सहस्रजनेश्वरा वा । 'बलिनो ये सहस्रेण
For Private and Personal Use Only