________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२५६
काव्यमाला। उभौ-(सखेदम् ।) इदमशक्यानुभवं चक्षुःश्रोत्रस्य । प्रतिकृतानां विद्विषामपि व्यसनमतिमात्रं हृदयमर्माणि च्छिनत्ति । (सविमर्शम् ।) अहह, न किंचिदनीषत्करं नाम कृतान्तस्य ।
वन्दारुवृन्दारकवृन्दबन्दीमन्दारमालामकरन्दबिन्दून् । मन्दोदरीयं चरणारविन्दरेणूत्करैः कर्करतामनैषीत् ।। ८२ ॥
(नेपथ्ये।) नीयन्ते वनदेवताभिरमरक्षोणीरुहो नन्दनं ।
नीतो वल्लभपालकेन च निजामुच्चैःश्रवा मन्दुराम् । रक्षोभिश्च विभीषणप्रैणयिभिः कारागृहान्मोचित
खर्बन्दीवदनावलोकनिबिडवीडो बिडोजाः कृतः ।। ८३ ।। रत्नचूडः—(सहर्षम् ।) सखे, तदेहि । लैङ्केश्वरकाराधिवासचिरप्रवास्तव्यं बन्धुवर्गमीक्षावहे । (इति परिकामन्तौ विलोक्य सहर्षमन्योन्यम् ।) सखे, पश्य पश्य । पँहारजर्जरवलीमुखाच्छभल्लगोलाङ्गंलग्रामसंवल्गनवगितसुग्रीवो लक्ष्मणनिहितधन्वा विभीषणभुजावलम्बी विजयश्रिया किमपि प्रदीप्तरमणीयो रामभद्रः । अयं हि संप्रति श्रोतुं न पार्यत इत्यर्थः । प्रतिकृतानामुन्मूलितानाम् । व्यसनं दुःखम् । अतिमात्रमत्यर्थम् । मर्माणि तत्त्वानि । अनीषत्करं दुष्करम् । वन्दार्विति । वन्दारुर्वन्दनशीलः। 'शृवन्द्योरारुः' । वृन्दारका देवाः । वृन्दं समूहः । मन्दारं देवतरुपुष्पम् । कर्करतां कठिनताम् । 'कर्करः कठिनेऽन्यवत्' इति मेदिनीकरः । अनैषीनीतवती । अयं भावःचरणपतितानां देवस्त्रीणां शिरःस्थितमन्दारपुष्परसान्खचरणारविन्दरेणुभिः कर्करतामियं मन्दोदरी नीतवती, तस्या इयं कष्टा दशेति कृतान्तस्य यमस्य न किंचिदनीषत्करम्, अपि तु सर्वमेवेषत्करमिति । नीयन्त इति । अमरक्षोणीरुहो देववृक्षाः पारिजातादयः। नन्दनमिन्द्रवनम् । वल्लभपालकेनाश्वरक्षकेण । 'यश्चारको मुद्गभुजां स स्याद्वल्लभपालकः' इति हारावली । उचैःश्रवा इन्द्राश्वः । 'वाजिशाला तु मन्दुरा' इत्यमरः। प्रणयिभिः स्निग्धैः । कारागृहाद्वन्धनागारात् । निबिडा गाढा । बिडोजा इन्द्रः । प्रवसतीति प्रवास्तव्यः । 'वसेस्तव्यत्कर्तरि णिच' इति कर्तरि तव्यत् । प्रहारो घातः । वलीमुखो वानरः । अच्छभल्लो भल्लूकः । गोलाङ्गूल: श्यामास्यो वानरः । ग्रामः समूहः संव
१. 'बल्लव-'. २. 'प्रभृतिभिः'. ३ 'मोचितः'. ४.'लङ्केश्वराधिवासचिरप्रवासव्यग्रम्'; 'लकेश्वरकारागृहाधिवासचिरप्रवासवास्तव्यम्'; 'लङ्केश्वरकाराधिवासचिरप्रवासव्यग्रबन्धुवर्गम्'. ५. 'समीक्षावहे'. ६. 'परिकामतः'. ७. 'प्रहारविद्ध-'. ८. 'संवर्गणव्यनित'. ९. 'विनिहित-'. १०. 'रामदेवः'.
For Private and Personal Use Only