SearchBrowseAboutContactDonate
Page Preview
Page 264
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra ६ अङ्कः] www.kobatirth.org अनर्घराघवम् । Acharya Shri Kailassagarsuri Gyanmandir पौलस्त्यन्यस्तशक्तित्रणकिणकणिकालक्ष्मणो लक्ष्मणोरःपीठान्निर्मुक्तलज्जो विबुधपुरवधूक्लृप्तपुष्पाभिषेकः । सद्यो नप्तारमन्यं रजनिचरपुरीभद्रपीठप्रतिष्ठं दृष्ट्वा तुष्यत् पुलस्त्यो जगति विजयते जानकीजानिरेकः ॥ ८४ ॥ (इति निष्क्रान्तौ ।) इति देशग्रीवनिग्रहो नाम षष्ठोऽङ्कः । २५७ ल्गनं संमाननम् । वल्गितश्चलितः । पौलस्त्येति । जानकी जाया यस्य स जानकीजानी रामो विजयते । लक्ष्मणस्योरः पीठाद्धृदयपीठान्निर्मुक्तलज्जः । कीदृशात् । पौलस्त्येन रावणेन न्यस्ता क्षिप्ता या शक्तिरस्त्रभेदस्तस्या या व्रणकिणकणिका क्षतचिह्नरेखा सैव लक्ष्म चिह्नं यत्र तस्मात् । तथा च रावणवधाद्रामस्य सा लज्जा नष्टेति भावः । विबुधपुरममरावती । सद्यस्तत्क्षणादेव । रावणवधानन्तरमेव । विभीषणस्य विश्रवास्तस्य पिता पुलस्त्य इति पुलस्त्यनप्ता विभीषणः । अयं रावणादन्यमपरं नप्तारं पौत्रं विभीषणम् । राक्षसपुरीभद्रपीठे प्रतिष्ठाभिषेको यस्य तादृशम् । तुष्यन्पुलस्त्यो यस्मात्सः । भद्रपीठं सिंहासनम् । 'नृपासनं यत्तद्भद्रासनम्' इत्यमरः । जानकीजानि - रिति ‘जायाया निङ्’। 'लोपो व्योर्वलि' इति यलोपः । निष्क्रान्तौ हेमाङ्गदरत्नचूडौ ॥ इति समस्तप्रक्रियाविराजमानरिपुराजकंसनारायण भवभक्तिपरायणश्रीहरिनारायणपदसमलंकृतमहाराजाधिराजश्रीमद्भैरवसिंहदेवप्रोत्साहित वै जोलीग्रामवास्तव्यखौआलवंशप्रभवश्री रुचिपतिमहोपाध्याय विरचितायामनर्घराघवटीकायां षष्टोऽङ्कः । १. ‘निष्क्रान्ता:'; 'निष्क्रान्ताः सर्वे'. २. 'दशास्यनिग्रहो नाम '. For Private and Personal Use Only
SR No.020040
Book TitleAnargha Raghavam
Original Sutra AuthorN/A
AuthorMurari, Durgaprasad Pandit, Vasudev Lakshman Shastri
PublisherNirnaysagar Press
Publication Year1908
Total Pages331
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy