________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
६ अङ्कः] अनर्घराघवम् ।
२५५ प्रचलदखिलक्ष्माभृन्मूलोपलव्यतिघट्टितो
___ ल्वणमणिशिलाजल्पाकीभिः फणाभिरहीश्वरः ॥ ८० ॥ इदानीं पुनरुत्क्रान्तवायुरतिदुर्वहो देहबन्धः।
हेमाङ्गदः-(अन्यतोऽवलोक्य ।) कथमियं दशकन्धरस्य कबन्धाभिमुखी शोकविक्लवा मन्दोदरी निशाचरीभिरपकृष्यते । (कर्ण दत्त्वा । आकाशे।) कष्टम् । चपलकपिकुलानुक्रियमाणकरुणकाकुप्रकारकातरखरा मन्दोदरी किमाह महावीरवरवर्णिनी
भूयिष्ठानि मुखानि चुम्बति भुजैर्भूयोभिरालिङ्गयते
चारित्रवतदेवतापि भवता कान्तेन मन्दोदरी । हा लम्बोदरकुम्भमौक्तिकमणिस्तोमैर्ममैकावली
शिल्पे वागधमर्णिकम्य भवतो लकेन्द्र निद्रारसः ।। ८१ ॥ महाशयष्टिर्यस्य तादृशः सन् । प्रचलन्तो येऽखिलाः सर्वे क्ष्माभृतः पर्वतास्तेषां मूलोपलैर्मूलप्रस्तरैय॑तिघट्टिता अन्योन्यलमा या उल्बणा महत्यो मणिरूपाः शिलास्तासां जल्पाकीभिः शब्दनशीलाभिः। पर्वतमूलपाषाणस्य परस्परघर्षणेन उल्बणा या शिरोमणिशिला तस्याः कथयित्रीभिरित्यर्थः । जल्पाकीभिरिति 'जल्पभिक्ष-' इति षाकन् । षित्त्वान्ङीष् । जेतैव जैत्रः । खार्थिकोऽण् । 'जैत्रस्तु जेता' इत्यमरः । उत्क्रान्तो देहबहिर्भूतः । विक्लवा विह्वला । निशाचरीभी राक्षसीभिरपकृष्यते [म]रणादपनिवार्यते । अनुक्रियमाणः सदृशीक्रियमाणः । काकुः शोककृतो ध्वनिः । 'उत्तमा वरवर्णिनी' इत्यमरः । भूयिष्ठानीति । मन्दोदरी भूयिष्ठानि प्रचुराणि दश मुखानि चुम्बति । भवता त्वया । कान्तेन स्वामिना रम्येण वा । भूयोभिः प्रचुरैर्विशत्या भुजैः सैवालिङ्ग्यते। चारित्रवते सुचरित्राव्रते देवतेव देवता । साध्वीत्यर्थः । अपिर्विरोधाभासे । तथा च पतिव्रताप्यहं नानामुखचुम्बनं भवतः कृते करोमीति भावः । हा कष्टम् । हे लङ्केन्द्र, भवतोऽपि निद्रारसः । कीदृशस्य । लम्बोदरस्य गणपतेः कुम्भमौक्तिकमणिसमूहैथैकावली हारभेदस्तस्याः शिल्पे निर्माणे मम वाचाधमर्णिकस्य ऋणिकस्य । गणेशस्य हतिरूपत्वात्तस्य कुम्भस्थमौक्तिकैरेकावलीं कृत्वा तुभ्यं दास्यामीत्यनेनाङ्गीकारेण त्वं ममाधमोऽसीत्यधमर्णिकस्य निदा न भवतीति भावः । अधमर्णिक इति । अधमं च तणं चाधमर्ण तद्यस्यास्ति । 'अत इनिठनौ' इति ठन् । 'एकावल्येकयष्टिका' इत्यमरः। खेदो दैन्यम् । अनुभवो ग्रहणम् । चक्षुश्च श्रोत्रं च । प्राण्यङ्गादेकवद्भावः । द्रष्टुं
१. 'अपक्रान्तदेहवायुर्दुवहोऽयम्'. २. 'कातरतरखरा'. ३. 'मन्दोदरी' इति पुस्तकान्तरे नास्ति.
For Private and Personal Use Only