________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२४८
काव्यमाला।
( सखेदभयं च ।) कथमयं रावणो माहेन्द्रस्यन्दनात्
तस्यारिबलभीमस्य ध्वजदण्डस्य लाञ्छनम् ।
दर्पदीप्तः क्षुरप्रेण मायूरं पिच्छमच्छिनत् ॥ ६५ ॥ रत्नचूड:-( सहर्षम् ।) सखे, पश्य पश्य कुलिशकेतुकेतनविमाननाविलक्षक्रुद्धेन
दिक्पालद्विपदर्पदानलहरीसौरभ्यगर्भानिलैः
परेव समस्तराक्षसकथाकल्पान्तकर्णेजपाः । दीयन्ते रघुपुंगवेन कतिचित्पौलस्त्यमौलिष्वमी
पौलोमीनयनाम्बुसीकरकणावग्राहिणो मार्गणाः ॥ ६६ ॥ हेमाङ्गदः-( सखेदाद्भुतम् ।) कथं किरीटपरम्परापरिभवममृप्यमाणेन बाणवर्षाद्वैतमातन्वता राक्षसराजेन विदेहकन्याकुचकुम्भकोटिकठोरतासाक्षिणि सायकोऽयम् ।
रामस्य जन्मान्तरमेलकारश्रीकौस्तुभे वक्षसि हा निखातः ॥ ६७ ॥ ( सम्यगवलोक्य ।) सखे, . एकेनैव निवातकङ्कटभिदा लङ्कापतेः पत्रिणा
विद्धोऽयं यदि नाम कोऽपि जगतामुल्लाघनो राघवः । स च विंशतिबाहुः । तस्माद्दशगुणं रामशिल्पं रामस्य युद्धकौशलम् । बाहुद्वयेन बाहु. विशतेः प्रतीकारादिति भावः । द्वन्द्वयुद्धमेकतुलायुद्धम् । तस्येति । मायूरं पिच्छं लाञ्छनं चिह्नमच्छिनत् । दीप्तो दीपनशीलः । क्षुरप्रेण काण्डभेदेन । 'पिच्छबहें नपुंसके' इत्यमरः । कुलिशकेतुरिन्द्रस्तस्य केतनं चिह्नम् । विमानना छेदनम् । विलक्षो लजितः । दिक्पालेति । दिक्पालद्विपानां दिग्गजानां दर्पण दानलहरी मदराजिस्तस्याः सौरभ्यं सौगन्ध्यं गर्भ यस्य सोऽनिलो येषां तैः पक्षैः पुढेः राक्षसकथायाः कल्पान्तस्य महाविनाशस्य कर्णेजपाः सूचकाः । 'स्तम्बकर्णयो रमिजपोः' इत्यच् । 'कर्णे। जपः सूचकः स्यात्' इत्यमरः । दीयन्ते पात्यन्ते । मौलिषु मस्तकेषु, किरीटेषु वा । 'मौलिमूर्धकिरीटयोः' इति धरणिः । पौलोमी शची । अवग्राहिणो वृष्टिप्रतिबन्धकाः । मार्गणा बाणाः । अमृष्यमाणेनाक्षममाणेन । विदेहेति । कोटिरग्रम् । कठोरता कठिनवं तस्याः साक्षिणि ज्ञातरि । जन्मान्तरे विष्णोर्मूर्त्यन्तरे मेलकारौ सहचरौ श्रीकौस्तुभौ यत्र तस्मिन् । मेलनं मेलः । भावे घञ् । तं करोति मेलकारः । कर्मण्यण् । 'मेलकारः सहचरः' इति धरणिः । 'कौस्तुभो मणिः' इत्यमरः । हा कष्टम् । एकेनैव.
१. अरिभयभीमस्य'.,'अरिभयभूतस्य'.२. अवमानवैलक्ष्य-'.,'अवमाननाविलक्ष-'.
For Private and Personal Use Only