________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
६ अङ्कः] अनर्धराघवम् ।
२४७ रत्नचूड:-कथं मैथिलीवल्लभेनापि प्रत्युपक्रान्तमेव । ( विहस्य ।)
पतन्ति रामभद्रेण खण्डिता रावणेषवः ।
पूर्वार्धेः फलिभिर्वेगात्पश्चाधैः पक्षिभिश्चिरात् ॥ ५९॥ किं च ।
अक्षेषु केतुदण्डे च सारथौ च हयेषु च ।।
खेलॅन्ति राक्षसेन्द्रस्य स्यन्दने रामपत्रिणः ॥ ६० ॥ हेमाङ्गदः-(सभयम् ।) अहह ।
अन्धकारीकृतव्योमा बाणवर्षेण रावणः ।
रामारूढं तिरोधत्ते शताङ्गं शातमन्यवम् ॥ ६१ ॥ (चिरं दृष्ट्वा सविस्मयम् ।) सखे,
नानाविधानि शस्त्राणि शस्त्रैर्नानाविधैरपि ।
इमौ हि प्रतिकुर्वाते न कश्चिदतिरिच्यते ॥ ६२ ॥ रत्नचूड:-एवमेतत् ।।
यद्रावणो बहुभिरेष भुजैः करोति ___ तद्राघवः प्रतिकरोति भुजद्वयेन । कर्म द्वयोर्यदपि तुल्यफलं तथापि
रक्षोभटादशगुणं नरवीरशिल्पम् ।। ६३ ।। हेमाङ्गदः-( विहस्य ।) सखे,
विंशत्यापि भुजैरेष द्वौ भुजावभियोधयन् ।
अदूषितद्वन्द्वयुद्धमर्यादो दशकंधरः ।। ६४ ॥ दयितेन रावणेन । प्रत्युपक्रान्तमेवेत्यत्र शरसहस्रदुर्दिन मित्यनुकर्षणीयम् । इषुः काण्डः । फलिभि.हफलयुक्तैः । गौरवेण वेगात्पतनमिति भावः । पक्षिभिः पुङ्खयुक्तैः । पर्वातावरुद्धगतित्वेन चिरात्पतनमिति भावः । अक्षेषु चक्रेषु । 'चक्रे कर्षे पुमानक्षः' इति मेदिनीकरः । यद्वाक्षेषु रथकीलकेषु । केतुदण्डे पताकादण्डे । खेलन्ति कीडन्ति । स्यन्दनो रथः । पत्रिण: काण्डाः । तिरोधत्ते आच्छादयति । शताङ्गं रथम् । 'शताङ्गः स्यन्दनो रथः' इत्यमरः । शतमन्युरिन्द्रः । 'तस्येदम्' इत्यण् । हिरवधारणे । इमावेवेत्यर्थः । प्रतिकुर्वाते प्रतीकारविषयाणि कुरुतः । द्वयो रामरावणयोः । कर्म किया। व्यापार इति यावत् । यदपि । यद्यपीत्यर्थः । 'वक्रः पन्था यदपि' इतिवत् । रक्षोभटो रावणः ।
१. 'प्रक्रान्तमेव'. २. 'रामचन्द्रेण'. ३. 'पत्रिभिः'. ४. पतन्ति'. ५. 'विहस्य' इति पुस्तकान्तरे नास्ति.
For Private and Personal Use Only