________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२४६
काव्यमाला । मूर्धानो वा न खलु भवतो दुर्लभाः संभवेयु
यदेवस्य त्वमसि जगतां शिल्पिनोऽपि प्रपौत्रः ॥ ५७ ॥ यत्पुनर्ब्रवीषि—'संप्रत्यपि ते भुजाः सन्ति' इति तदधुनैव ज्ञास्यन्ते ।
हेमाङ्गदः—(कर्ण दत्त्वा ) किमाह रावणः--अरेरे राजन्यडिम्भ, भवतः पुराणपितामहेन बहु तावदनरण्येनैव ज्ञातम् । इदानीं भवानपि ज्ञास्यति । रत्नचूडः—(कर्ण दत्त्वा विहस्य ।) किमाह रामः- अरेरे राक्षसीपुत्र,
न दूये नः पूर्व नृपतिमनरण्यं यदवधी
र्जयो वा मृत्युर्वा युधि भुजभृतां कः परिभवः । जितं तु त्वां कारागृहविनिहितं हैहयपतेः
पुलस्त्यो यद्भिक्षामकृत कृपणस्तव्यथयति ।। ५८ ॥ हेमाङ्गदः--(कर्ण दत्त्वा।) किमाह रावणः---आः क्षत्रियबटो वाचाट, कथमपूर्वशिल्पी रजनिचरेन्द्रचरितचन्द्रेऽपि लक्ष्म लिखसि । तदयं न भवसि । ( ससंभ्रममवलोक्य।) कथमुपक्रान्तमेव शरसहस्रदुर्दिनं मन्दोदरीदयितेन ।
माह-मूधीनो वेत्यादि । न खलुशब्दोऽत्यन्तनिषेधे। नैवेत्यर्थः । जगतां शिल्पिनो ब्रह्मणः। प्रपौत्रः प्रणप्ता । महादेवप्रीत्यर्थ वा] भवता शिरांसि न च्छिद्यन्ते किं तु सुलभान्येवेति कृत्वा छिद्यन्त इति सोल्लुण्ठमुक्तिः । राजन्यडिम्भ क्षत्रियबालक । पुराणस्य पूर्वपुरुषस्य पितामहेन । अतिचिरपूर्वपुरुषलात् । अनरण्यनामा राजर्षी रामस्य पूर्वपुरुषः । स च रावणेन जितः । न दूय इति । न दूये न परितपामि । 'दूटु परितापे' दिवादिः । नोऽस्माकं पूर्व पूर्वपुरुषमनरण्यनामानं यत्त्वमवधीहतवानसि । कः परिभवः, अपि तु न कोऽपि । कारागारं बन्धनगृहम् । 'स्यात्कारा बन्धनागारबन्धयोः' इति मेदिनीकरः । यद्वा कारारूपं गृहं कारागृहम् । उक्तिपोषोऽयमलंकारः । हैहयपतेः सहस्रार्जुनस्य भिक्षामकृत भिक्षां प्रार्थितवान् । करोतिः प्रार्थनार्थः । धातोरनेकार्थलात् । कृपणो दीनः, निन्दितो वा । 'कृपणः सन्ननिन्दितयोरपि' इति विश्वः । तद्व्यथयति तदतिपीडां जनयतीत्युपहासः । 'वाचाटो बहुगावाक्' इत्यमरः । लक्ष्म कलङ्कम् । अन्य. स्मिन्नपि चन्द्रे लक्ष्म भवतीति ध्वनिः । तदयं न भवसि । तत्त्वं न भविष्यसीत्यर्थः । 'वर्तमानसामीप्ये वर्तमानवद्वा' इति भविष्यति लट् । दुर्दिनमन्धकारो वृष्टिवी । मन्दोदरी
१. 'विहस्य' इति पुस्तकान्तरे नास्ति. २. 'रे रे'.
For Private and Personal Use Only