________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
६ अङ्कः]
अनर्घराघवम् ।
२४५
दर्पोऽयं भवतः सुरासुरचमूदोःकाण्डकण्डूविष. ____ ज्वालाजाङ्गलिकेन जङ्गलभुजां पत्यापि न त्याजितः । येनैन्द्रे रथवर्मणी रघुशिशोरस्योपनीते त्वया
राजद्विष्टमिदं विधाय स कथं शक्तोऽपि वर्तिष्यते ॥ ५५ ॥ रत्नचड:-(श्रुतिमभिनीय।) किमाह रामः-सत्यमिदं भोः । यच्छीलः खामी तच्छीलास्तस्य प्रकृतयः । यदेवमपि स्वामिनो ऍलोच्छेदिना दुर्नयेन विकत्थन्ते । हेमाङ्गदः--(आकाशे कर्णं दत्त्वा ।) किमाह रावणः-अरे तापसबटो,
क्रोधेन ज्वलिता मुहूर्तमनु च खैरेव निर्वापिताः ___ क्लीबैरश्रुमहोर्मिभिर्मखभुजां पत्युः सहस्रं दृशः । यैदृष्टा भुवनत्रयीविजयिभिः सर्वकषाः सन्त्यमी
ते संप्रत्यपि मे नयापनययोर्निर्वाहमूलं भुजाः ॥ ५६ ॥ रत्नचूड:-( कर्ण दत्त्वा विहस्य ।) किमाह रामःछित्त्वा मूर्ध्नः किमिति स वृतो धूर्जटिर्यद्यमीषां
दोःस्तम्भानां त्रिभुवनजयश्रीरियं वास्तवी ते । ण्डः । कण्डूस्तेजस्तदेव विषं तस्य ज्वालाया जाङ्गलिकेन विषवैयेन । जङ्गलं मांसम् । तद्धञ्जते जङ्गलभुजो राक्षसाः। 'किप च' इति क्वि । तेषां पत्या रावणेन येन हेतुना ऐन्द्रे इन्द्रसंबन्धिनी रथश्च वर्म च रथवर्मणी । वर्म संनाहः । उपनीते उपढौकिते । राज्ञो द्विष्टं द्वेषः । भावे क्तः । कथं वर्तिष्यते कथं स्थास्यति । रावणादिति शेषः । तस्यापि नाशहेतोरुपस्थितिरिति भावः । जाङ्गलिक इति । 'जाङ्गली विषविद्यायाम्' इति मेदिनीकरः । जाङ्गलीमधीते वेत्ति वा जाङ्गलिकः । अध्यात्मादित्वाट्ठञ् । 'जङ्गलं निर्जलस्थाने त्रिलिङ्गयां पिशितेऽस्त्रियाम्' इति मेदिनीकरः । प्रकृतयः परिजनाः । विकत्थन्ते श्लाघन्ते । आत्मानं प्रशंसन्ति वा । विकत्थनमात्मप्रशंसेति शाब्दिकाः । क्रोधनेति । अनु पश्चानिर्वापिता निस्तेजीकृताः । क्लीवैविक्रमशून्यैः । यैर्भुजैरिन्द्रस्य सहस्रं दृशो दृष्टा इति संबन्धः । अपनयो दुर्नयः । नयानयसमर्था इत्यर्थः । मूलशब्दस्याजहल्लि. गतया भुजा इत्यनेन विशेषणविशेष्यभावः । मूलवं च सर्वेषां भुजानां साधारण्येनेति सामान्यविवक्षायामेकवचनता मूलमिति । ते संप्रतीति । तथा च तैरेव वामपि हनिष्यामीति भावः । छित्त्वेति । मूनों मस्तकानि छित्त्वा वृतः प्रार्थितः । सोल्लुण्ठ
१. 'सत्यम्' इत्यस्मात्पूर्व पुस्तकान्तरे 'अनुवदति' इत्यधिकमस्ति. एवमग्रेऽपि. २. 'प्रभुः'. ३. 'तदेवम्.' ४. 'मूलोच्छेदेन'. ५. 'ज्वलता'. ६. 'अपि च.'
For Private and Personal Use Only