________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२४४
काव्यमाला |
(सविस्मयम् ।) कथमद्यापि तृणीकृतजगत्रयः स एवास्य तावानहंकारग्रन्थिः ।
रलचूड : - ( सोत्प्रासस्मितम् 1) संखे, कथमिदमेव भवन्तं विस्मापयते । मानाध्मातः खां किलोत्कृत्य तावन्मूर्धश्रेणीमेकशेषोत्तमाङ्गः ।
स्त्रीमर्धाङ्गे वञ्चयित्वा मुखेन प्रीतः शंभोरेकपादे पपात || ५३ || (ऊर्ध्वमवलोक्य च सवितर्कम् ) भगवतो दिवस्पतेरिव रथो दाशरथिमुपतिष्ठते । हेमाङ्गदः -- ( दृष्ट्वा सहर्षम् ) सखे, स एवायं किं न पश्यसि । लोचनमार्गसहस्रचन्द्रकस्तचकितमहेन्द्रकवचहस्तो मातलिः । (क्षणं निर्वर्ण्य विहस्य च । ) विविधमणिमयूखमञ्जरीभिः कृतसुरचापसहस्रसंनिपाते ।
अधिसमरमहारयद्विमाने निजमपि कार्मुकमत्र देवराजः ॥ ५४ ॥ (आकाशे कर्ण दत्वा ।) किमाह रावणप्रतीहारः — अरेरे पुरुहूतसूत,
इत्यमरः । तदधुना कियन्तं कालमवधिं यावत् । अमी मम मार्गणाः । भवानिति द्रक्ष्यन्ति चिराय द्रष्टुं न शक्नुवन्ति । दर्शनावधिस्ते पूर्ण इति भावः । इतिशब्देनाव्ययेनोक्तत्वाद्भचच्छब्दान्न द्वितीया । देवेन्द्रद्विपस्यैरावतस्य यद्दानदुर्दिनं मदजलवृष्टिस्तद्भिदस्तन्नाशकाः । रावणवाणदर्शनादेव ऐरावतस्य मदशोष इति भावः । ' कलम्बमार्गणशरा:' इत्यमरः । कथमिदमेव विस्मापयत इति । किं त्वन्यदपीति शेषः । 'नित्यं स्मयतेः' इत्यात्वम् । ‘भीस्म्योर्हेतुभये' इति तङ् । अपरविस्मयहेतुमाह - मानाध्मात इति । वार्तायाम् । अयं रावण: खां मूर्धश्रेणीं निजां मस्तकपङ्क्तिमुत्कृय च्छित्त्वा एकमद्वितीयं शेषमवशेषमुत्तमाङ्गं शिरो यस्य तादृशः सन्नधङ्गे वामार्थे । अर्थान्महादेवस्य । स्त्रीं गौरीं वञ्चयित्वा त्यक्त्वा शंभोरेकपादे पपात । मुखेन प्रीतस्तुष्टः । ‘येनाङ्गविकारः ' इति तृतीया । मानेनाध्मातः सगर्वः । स्त्रीमिति 'वाम्शसोः' इतीयङो विकल्पात् । दिवस्पतेरिन्द्रस्य । 'विभाषा खसृपत्योः' इत्यलुक् । षष्ठ्याः पतिपुत्र-' इति सत्वम् । उपतिष्ठते संगतीभवति । संगतिकरणे तङ् । चन्द्रकं रन्ध्रस्तेन स्तबकितो गुच्छीकृतः । कवचः संनाहः । मातलिरिन्द्रसारथिः । 'सूतो मातलिः' इत्यमरः । विविधेति । देवराज इन्द्रोऽधिसमरं सङ्ग्रामे निजमपि कार्मुकं धनुरहारयत्प्रास्थापयत् । अत्र हेतुगर्भं विशेषणम्-कृतेति । उत्तमरत्नानां तेजोभिरिन्द्रधनुः क्रियत इति तदेवोक्तम् । संनिपातः समागमः । अधिसमरमिति 'अव्ययं विभक्ति -' इत्यादिना विभक्त्यर्थेऽव्ययीभावः । ‘देवयानं विमानोऽस्त्री' इत्यमरः । पुरुहूतसूत इन्द्रसारथे । काण्डः प्रका१. ‘सखे’ इति पुस्तकान्तरे नास्ति. २. 'महेन्द्र' ३. 'अरेरे' इत्यस्मात्पूर्व पुस्तकान्तरे 'अनुवदति' इत्यधिकमस्ति .
For Private and Personal Use Only