________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
६ अङ्कः] अनर्घराघवम् ।
२४९ चक्षुर्वमसहस्रनिःसरदसृग्धारौघझांकारिणा
माहेन्द्रेण तु वर्मणा विवृणुते वीरः सहस्रं व्रणान् ॥ ६८ ॥ रत्नचूड:-( सहर्षम् ।) राघवेणापि
सीतास्तनस्तबककुङ्कमपङ्कलोपे__ संकल्पपातकिनि वक्षसि रावणस्य । न्यस्तः शरो विबुधकुञ्जरर्दैन्तघात
___ रूढवणार्बुदचतुष्टयमध्यवर्ती ॥ ६९ ॥ हेमाङ्गदः-(कर्ण दत्त्वा सविस्मयम् ।) एकेन सव्यपाणिना विशिखमुत्खाय किमाह रावणः-साधु रे मनुष्यडिम्भ, साधु ।
त्रैविक्रमः सकलदानवजीवितव्य
विद्यासमाप्तिलिपिरेष सुदर्शनो मे । यस्मिन्निपत्य हृदये दलितारजाल
ज्योतिस्तुषारमयमाभरणं बभूव ॥ ७० ॥ ति । निवातं दृढं शस्त्राभेद्यम् । कङ्कटः संनाहः । 'उरश्छदः कङ्कटकः' इत्यमरः । पत्रिणा बाणेन । नाम प्राकाश्ये, संभावनायां वा । इदं संभाव्यत इत्यर्थः । जगतां कोऽप्यनिर्वचनीय उल्लाघनो नैरुज्यकारी । रावणनाशरूपभेषजकरणादिति भावः। 'कृत्यल्युटो बहुलम्' इति कर्तरि ल्युट् । 'उल्लाघो निर्गतो गदात्' इत्यमरः । असृग्धारौघो रुधिरधारासमूहः । झांकारोऽव्यक्तशब्दः। माहेन्द्रेण महेन्द्रसंबन्धिना। वर्मणा संनाहेन । विवृणुते प्रकाशयति । एकबाणपातेऽपि संनाहस्य चक्षुर्वर्त्मसहस्रेण रुधिरनिर्गमागुणसहस्रविवरणमिति भावः । सीतास्तनेति । लोपः खण्डनं तत्र संकल्प इच्छा तेनैव पातकयुक्ते । विबुधकुञ्जरस्यैरावतस्य दन्तघातेन रूढमुपचितं यद्गणस्यार्बुदचतुष्टयम्, अर्बुदमिवाव॒दं रूढव्रणोच्चस्थानं तस्य मध्यवर्ती । ऐरावतस्य चतुर्दन्तत्वात्तद्दन्ताघातेन रावणहृदयेऽर्बुदचतुष्टयं युज्यत एव । सव्यपाणिना दक्षिणहस्तेन । विशिखं बाणम् । उत्खायोत्पाट्य । विक्रम इति । एष मम त्रैविक्रमः । त्रिविक्रमो विष्णुस्तत्संबन्धी सुदर्शनश्चक्रविशेषोऽस्ति । सकलदानवानां जीवितव्यं जीवनं तदेव विद्या तस्याः समाप्तिलिपिः समाप्त इति यस्याः प्रसिद्धिस्तद्वत् । दानवसमूहप्राणनाशक इत्यर्थः । यस्मिन्सुदर्शने निपत्य हृदये दलितं खण्डितं यदारजालं चक्रप्रान्तसमूहस्तस्य ज्योतिः कर्तृ
१. 'सात्कारिणा'. २. 'लेप-'. ३. 'वारण-'. ४. 'दन्तपात-'. ५. 'एकेनापि सव्येन पाणिना'; 'एकेन सव्येन'; 'एकेन सव्यपाणिना तमुत्खाय'. '
अन० २२
For Private and Personal Use Only