________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२४२
काव्यमाला। इत्यभिदधानेनैवोत्प्लुत्य निर्दयं शिरसि ताडितो रथध्वजदण्डावलम्बी कथंचिदाश्वसिति रावणः । (सर्वतोऽवलोक्य सहर्षम् ।) सखे, पश्य पश्य ।
यन्माल्यग्रथनावशेषविकलैः संतानकै किनां
भर्ने गर्भगमेव दाम निभृतं खर्मालिकैर्गुम्फितम् । तस्मिन्नद्य दशास्यमूर्धनि नवप्रस्तावनामापदां
__ पश्यन्तो रभसौषभर्सितभियः क्रोशन्ति नः स्यन्दनाः ।। ४९ ॥ हेमाङ्गदः—(सविषादम् ।) अहह, सोऽप्याश्वस्य दशकण्ठेनापि मुष्टिना ताडितो मूर्छितः कपीन्द्रो नीलहनूमद्भयामाश्वस्यमानोऽपसार्यते ।
रत्नचूड:-सखे, प्रधनस्य हि प्रथमे पर्वणि शतकृत्वो विजयन्ते पराजीयन्ते च वीराः । तत्र को विषादः ।
हेमाङ्गदः—(अन्यतोऽवलोक्य ।) सखे, रत्नचूड, दिष्ट्या वर्धसे यदयमनुप्राप्तः
कुशिकसुतसपर्यादृष्टदिव्यास्त्रतन्त्रो
__ भृगुपतिसहयुध्वा वीरभोगीणबाहुः । विदुः ॥' यथा मालतीमाधवम् । यन्माल्येति । रभसौघेन हर्षातिशयेन भत्सिता तिरस्कृता भीभयं येषां तादृशाः सन्तो नोऽस्माकं स्यन्दना रथाः, तात्स्थ्यात्तदारोहा वा, क्रोशन्ति शब्दं कुर्वन्ति। कीदृशाः । तस्मिन्नपि दशास्यमूर्धनि आपदां विपत्तीनां नवप्रस्तावनां नूतनविभावनां पश्यन्तः । यस्य मू! माल्यं माला तथनादवशेषास्त्यक्ताः अत एव विकलाः कीटादिविद्धा ये तैः संतानकैः पुष्पभेदैर्नाकिनां भर्चे इन्द्राय गर्भगं केशमध्यगतमेव दाम माला निभृतं गुप्तं यथा स्यादेवं रावणभयात्खालिकैर्देवमालाकारैर्गुम्फितं प्रथितम् । एतादृशस्यापि रावणस्यापदं पश्यतां क्रोशनं युक्तमेव । 'केशमध्ये तु गर्भकम्' इत्यमरः । भर्ने इति तादर्थं चतुर्थी । मुष्टिनेति 'मुष्टिद्वयोः' इत्यमरात्पुंल्लिङ्गता । आश्वास्यमानो जलादिनाश्वास कार्यमाणः । अपसार्यते स्थानान्तरं नीयते । प्रधनं युद्धं तस्य प्रथमपर्व आद्योत्सवः । 'प्रधनं रणनाशयोः' इति विश्वः। शतकृत्वः शतवारान् । 'संख्यायाः क्रियाभ्यावृत्तिगणने कृत्वसुच्' दिष्टयेति हर्षाभिव्यञकम् । वर्धसे साभ्युदयोऽसीत्यर्थः । कुशिकसुतेति । सपर्या सत्कारः। तत्रं शास्त्रम् । भृ. गुपतिः परशुरामः । तेन सह युवा सहयुद्धवान् । 'सहे च' इति क्वनिप् । वीरभोगाय
१. 'इत्यभिधायानेन'. २. 'गर्भकम्'. ३. 'निभृतैः'. ४. 'सोऽपि' इति पुस्तकान्तरे नास्ति. ५. 'हि' इति पुस्तकान्तरे नास्ति. ६. 'महावीराः'.
For Private and Personal Use Only