________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
६ अङ्कः] अनर्घराघवम् ।
२४१ अस्मद्वाहुवनान्दोलसुलभं फलमामुवन् । नियुद्धलाघवक्लान्त शाखामृग सुखी भव ॥ ४६॥ रत्नचूड:-(सहर्षम् ।) सखे, करणकौशलमोचितात्मा विपक्षदुर्वचनत्रुट्यमानहृदयो हृदयंगममभिदधाति वानरेन्द्रः ।। विंशत्या युगपत्क्षमैरपि भुजैराकर्षणच्छेदयो
रेच्छिन्नं दशमं शिरः कथयति च्छिन्नानि यानि क्रमात् । तान्याराद्धमहेश्वराणि भवतः शीर्वाणि तुल्यं दश
___च्छिन्दानो दशभिर्नखैर्यदि पुनः शाखामृगेन्द्रः सुखी ॥४७॥ अपि च रे रे राक्षस, दशमुखवधनाट्यसूत्रधारो रघुपतिरस्य च पारिपार्श्वकोऽहम् ।
प्रकरणफलबीजभावकानाममृतभुजां समुपाखहे समाजम् ॥ ४८ ॥ तयालुभिः समन्तात्पतनशीलैः । 'स्पृहिगृहि-' इत्यादिना आलुच् । आन्दोल आरोहणम् , कम्पनं वा । 'नियुद्धं बाहुयुद्धे स्यात्' इत्यमरः । करणं शरीरसंकोचादि । विपक्षो रावणः । हृदयंगम मनोहरम् । विंशत्यति। तव विंशत्या भुयुगपदेकदा क्षमैः समथैरप्यच्छिन्नं दशमं शिरः कर्तृ यानि शिरांसि क्रमाच्छिन्नानि कथयति तानि तव दश शीर्षाणि तुल्यमेकदैव दशभिनखैश्छिन्दानः शाखामृगेन्द्रः सुग्रीवो यदि मुखी तदा सुखी । तव शिरश्छेदनं विना नाहं सुखीत्यर्थः । इह विंशतिशब्द एकवचनान्त एव तावत्संख्यामाह । भुजशब्दस्तु बहुवचनान्त इति तथैव सामानाधिकरण्यम्। कीदृशानि। आराद्धः सेवितो महेश्वरो यैस्तानि । रे इति नीचसंबोधने । दशमुखेति । दशमुखवध एव नाट्यं नृत्यं तस्य सूचना तद्धारयति । अथ च नाट्ये सूत्रधारो भवत्येव । पारिपार्थकः परिपार्श्ववर्ती । अथ च सूत्रधारद्वितीयः । अमृतभुजां देवानां समाज सभामावां समुपाखहे उपासनाविषयं कुर्वः । कीदृशानाम् । प्रकृष्टं करणमुत्फालस्तस्य फल मूर्छादि, बीजं दर्पवचनादि, तेषां भावकानामनुभावकानाम् । अथ च नाट्ये प्रकरणं रूपकभेदस्तस्य फलं कार्य बीजं नाट्यबीजं तद्भावकानां प्रकाशकानाम् । अमृतमिवामृतं सरसं नाट्यं तद्भुजां तदनुभवितृणाम् । काव्यरसशालिनामिति यावत्। समाज सूत्रधारपारिपार्थकावुपासाते इति ध्वनिः । सूत्रधारलक्षणं प्रागेव लिखितम् । 'सूत्रधारेण सहितः संलाप प्रकरोति यः । सूत्रधारसमो वापि स भवेत्पारिपार्श्वकः ॥' इति भरतः । आत्मशक्त्या कवियत्र कथां नायकमेव च । औत्पादिकं प्रकुरुते तद्धि प्रकरणं
१. 'अस्मद्वाहु' इत्यादिश्लोकात्पूर्व पुस्तकान्तरे 'अनुवदति' इत्यधिकमस्ति. २. 'अच्छिन्दन्'. ३. 'समुपास्महे'.
For Private and Personal Use Only