________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२४०
काव्यमाला।
चित्तेनास्खलितेन यस्तदधिकं ब्रह्माणमप्रीणय
त्कस्तस्मै प्रथमाय मानिषु महावीराय वैरायते ॥ ४३ ॥ हेमाङ्गदः-सखे, पश्य पश्य भयानकमद्भुतं च वर्तते ।
विशिखौघविकीर्णगण्डशैले तरुसंचूर्णितशक्तितोमरे च ।
कपिराक्षसराजयोरजस्रं तुमुले भान्ति तलातलिप्रपञ्चाः ॥ ४४ ।। नूनमिदानीं
श्वासोर्मिप्रतिबन्धतुन्दिलगलप्रच्छिन्नहारावली
रत्नैरापतयालुभिः कृतफणप्राग्भारभङ्गभ्रमः । श्रोत्राभावनिरन्तरालमिलितैः स्तब्धैः शिरोभिर्भुवं
धत्ते वानरवीरविक्रमभराद्भग्नैर्भुजंगाधिपः ॥ ४५ ॥ (सविषादम् ।) अहह, बाहुयन्त्रेणापीड्य वानरराजं सुग्रीवं किमाह रावणः । शाजवाद्वेगात्स्फुटित्वा बहिप्कीर्णेषु विस्तृतेष्वलिकेषु ललाटेच्वाधारेषु दैवलिपिभिर्दै. वाक्षरै रामायणं रामेण रावणवधं दृष्ट्वापीत्यन्वयः। अस्खलितेन निर्विकारेण । तदधिकं पूर्वस्मादप्यधिकं यथा स्यादेवम् । अप्रीणयत्प्रीतमकरोत् । प्रथमायाद्यभूताय । मानिष्वभिमानेषु । वैरायते वैरं करोति । 'शब्दवैर-' इति क्यष् (क्यङ्) । 'वा क्यषः' इति तङ् । तस्मै इति 'क्रुधद्रुह-' इति संप्रदानत्वम् । 'ललाटमलिकं गोधिः' इत्यमरः । "लिखिताक्षरविन्यासे लिपिर्लिबिरुभे स्त्रियौ' इति च । 'रामेण रावणवधो रामायणमिति स्मृतम्' इति त्रिकाण्डशेषः । विशिखौघेत्यादि । पद्यपूर्वार्धपदद्वयं कपिराक्षसराजयोरित्यस्य प्रत्येकं यथाक्रम सप्तम्येकवचनान्तं विशेषणम् । विशिखो बाणः। विकीर्णो विक्षिप्तः । 'गण्डशैलास्तु च्युताः स्थूलोपला गिरेः' इत्यमरः। शक्तिरस्त्रभेदः । तोमरः शस्त्रभेदः । तुमुलं संकुलरणः । तलश्चपेटः । तलैश्च तलैश्च प्रत्येदं युद्धं प्रवृत्तं तलातलि । 'तत्र तेनेदमिति सरूपे' इति समासः । 'इच्कर्मव्यतिहारे' इतीच् । 'अन्येषामपि दृश्यते' इति दीर्घः । तस्य प्रपञ्चा विस्ताराः । श्वासोरुति । भुजंगाधिपः सर्पराजो वानरवीरविक्रमभरात्सुग्रीवपराक्रमातिशयाझुग्नैर्ननैः शिरोभिर्मस्तकैर्भुवं पृ. थिवीं धत्ते । शिरोभिः कीदृशैः । श्रोत्रं कर्णस्तस्य विरहात् । सर्पस्य चक्षुःश्रवस्त्वाकर्णाभावस्ततो निरन्तरालमन्तरालशून्यं मिलितैरत एव स्तब्धैश्च। शेषस्य सहस्रफणत्वाद्बहुवचनम् । भुजंगाधिपः कीदृशः । श्वासोर्मिः श्वासपरम्परा तस्याः प्रतिबन्धेन निरोधेन तुन्दिलादुच्छूनाद्गलात्प्रच्छिन्ना त्रुटिता या हारावली तस्या रत्नैः कृतो धृतो वा फणानां यः प्राग्भारो विस्तारः, शिखरं वा, तद्भङ्गस्य भ्रमो येन तादृशः। आप
१. 'प्रहाराः'. २. 'विक्रमभराभुग्नो'. ३. 'वानरराजम्' इति पुस्तकान्तरे नास्ति. ४. 'दशग्रीवः'.
For Private and Personal Use Only