________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
६ अङ्कः अनर्घराघवम् ।
२३९ रत्नचूड:-(दृष्ट्वा सखेदहासाद्भुतम् ।) अहह,
अस्त्राणि प्लवगाधिपेन विहिताः पौलस्त्यवक्षःस्थली. ___ संघट्टानलदत्तदावविपदः सीदन्ति भूमीरुहाः । उत्पाट्य प्रहितश्च शैलशिखरो लङ्केन्द्रहस्तावली
निष्पिष्टो निजकुञ्जनिर्झरजलैर्जम्बालपिण्डायते ॥ ४० ॥ हेमाङ्गदः-(विहस्य ।) सखे दशकंधरमधिकृत्य न किंचिदेतत् । तथैतेनोद्धृत्य स्फटिकशिखरी सोऽपि विदधे
समन्तादामूलत्रुटितवसुधाबन्धविधुरः । अमुं येनाद्यापि त्रिपुरहरनृत्यव्यतिकरः
___ पुरस्तादन्येषामपि शिखरिणामुल्ललयति ॥ ४१ ।। किं च तर्कयामि । शस्त्रीकृतस्तरुवरो हरिपुंगवेन लकेन्द्रवक्षसि मृणालमृदुः पपात । तत्रस्थितैस्तु कुसुमैः कुसुमेषुरेनं सीतावियोगविधुरं दृढमाजघान ॥ ४३ ॥
रत्नचूड:-(विहस्य ।) सखे, किमुच्यते महासत्त्ववतामुपरि खल्वसौ रावणः । तथा हि । स्वेत्कृत्य हुतेषु मूर्धसु जवादग्नेः स्फुटित्वा बहि
ाकीर्णेवलिकेषु दैवलिपिभिदृष्ट्वापि रामायणम् । रेश्वरेण सुग्रीवेणास्त्राणि विहिता भूमीरुहा वृक्षाः पौलस्त्यवक्षःस्थलीसंघटेन जातो योऽनलस्तेन दत्ता दावविपदो वनाग्निविपत्तयो येषु तादृशाः सन्तः सीदन्त्यवसना भवन्ति । निजशब्दोऽत्र शैलवाचकः । जम्बालः कर्दमः । तथेत्यादि । एतेन रावणेन सोऽपि स्फटिकशिखरी कैलासस्तथोद्धृत्य समन्तात्सर्वत आमूलं त्रुटितो यो वसुधाबन्ध. स्तेन विधुरो विकलो विदधे यथान्यगिरीणां मध्ये पुरस्तात्प्रथमं हरनर्तनक्रमोऽमुमेव कैलासमुल्ललयति चालयति । यद्वान्यगिरीणां पुरस्तादने हरनृत्यक्रमोऽमुमेव चालयति। आमूलत्रुटितवसुधाबन्धविधुरत्वात् । कैलास एवं चलति नान्ये केचन पर्वता इति भावः । हरिपुंगवेन सुग्रीवेण । लङ्केन्द्रो रावणः । तत्रस्थितैर्वृक्षस्थितैः । कुसुमेषुः कामः । एनं रावणम् । विधुरं दुःखितम् । आजघान हन्ति स्म । 'आडो यमहनः' इति न तङ् । अस्वाङ्गकर्मकत्वात् । स्वेष्विति । उत्कृत्य च्छित्त्वा । अग्नेः सका
१. 'सखेदाद्भुतम्'. २. 'शस्त्राणि'. ३. 'तटी'. ४. 'महासत्वतायां रावण: खल्व. ग्रम्'; 'महासत्ववतामुपरि रावणः खल्वसौ'.
For Private and Personal Use Only