________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२३६
काव्यमाला। हेमाङ्गदः-(सकौतुकम् ।) सखे, दक्षिणतः पश्य तावत् ।
अगस्त्याज्ञासद्यःशमितविपुलोच्छ्रायविषमा
नुदस्यन्तः सेतावलगितवतो विन्ध्यशिखरान् । शिरःसंख्यासत्याकृतदशमुखालोकरभसा
दुपेत्यातित्रस्ताश्चपलमपसर्पन्ति कपयः ॥ ३२ ॥ रत्नचूड:-(दृष्ट्वा सहासम् ।)
शस्त्रीकृतान्कपिभिरापततो मुंदैव
विक्रम्य चन्दनतरून्दधते पलादाः । तत्सङ्गिनस्तु भुजगाः क्षणपाशबन्ध
दुःखासिकामवयवेषु दिशन्त्यमीषाम् ॥ ३३ ॥ हेमाङ्गदः-(विहस्य ।) इतोऽपि तावत्
रक्षःस्वयंवरविडम्बपराङ्मुखीभिः __ पुष्पोत्करे सुरवधूभिरनुज्झितेऽपि । शस्त्रीकृतेन तरुणा हरिणा हतोऽसौ
नक्तंचरः खपिति तत्कुसुमावकीर्णः ॥ ३४ ॥ रत्नचूड:-(चिरं विभाव्य ।) सखे, पश्य पश्य ।
खतनुरुचिभिर्दीर्घाह्रीं द्यामितः सृजतां निजै
रथ विदधतः कायाभोगैरकाण्डतमखिनीम् । 'दक्षिणोत्तराभ्यामतसुच् । अगस्त्येति । कपयो वानराश्चपलं यथा स्यादेवमपसर्पन्त्यपगच्छन्ति । कीदृशाः । उपत्य समीपं गत्वा शिरःसंख्यया सत्याकृतो ज्ञातो दशमुखस्तस्यालोकरभसादतित्रस्ताः सभया विन्ध्यशिखरानुदस्यन्त उत्क्षिपन्तः । कीदृशान् । अगस्त्याज्ञया सद्यःशमितः सकल उच्छ्राय उन्नतिस्तेन विषमान् । सेतावलगितवतो. ऽलग्नान् । सत्याकृतेत्यत्र 'सत्यादशपथे' इति डाच् । शस्त्रीकृतानिति । कपिभिः शस्त्रीकृताननन्तरमापतत आगच्छतश्चन्दनतरून्मदैव हर्षेणैव विक्रम्योत्लुत्य पलादा राक्षसा दधते धारयन्ति । तत्सङ्गिनश्चन्दनवृक्षाश्रिता भुजगाः सा अमीषां राक्षसा. नामवयवेषु करादिषु वेष्टनात्क्षणं पाशबन्धदुःखासिकां दुःखावस्थितिं दिशन्ति कुर्वन्ति, प्रयच्छन्ति वा । विडम्बस्तिरस्कारः । सुरवधूभिर्विद्याधरीभिः । हरिणा वानरेण की तरुणा करणेन हतः । तत्कुसुमेन शस्त्रीकृतवृक्षपुष्पेणावकीर्णश्छन्नः । स्वतन्विति ।
१. 'मुदैवम्'. २. 'साहसम्'.
For Private and Personal Use Only