________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
६ अङ्कः अनर्घराघवम् ।
२३७ दधति नितरामुद्दीप्राणामघश्छिदुरश्रियो
हरिहुतभुजां धूमच्छायाममी रजनीचराः ॥ ३५॥ हेमाङ्गदः-( सस्मितम् ।) सखे, पश्य पश्य ।
किमपि कपयः कर्माश्चर्य महातरुशस्त्रिणो
विदधति यथा दिकूलेभ्यस्तथापसरन्त्यमूः ! ध्रुवमवपतद्रक्षःश्रेणीविमुक्तनभोन्तर
प्रतिभरणिकानिःस्थामानो दशाननकीर्तयः ॥ ३६॥ रत्नचूडः-(ससंभ्रमम् ।) अहह, दारुणमुपस्थितम् । रक्षोनिपिष्टकपिमुक्तमहीध्रचूर्ण
पूर्णान्तराभिरिषुवृष्टिभिरुजिहानः । रोपाट्टहासदहनप्रसरैस्तडित्वांल्लङ्काधिपः किमपि संतमसं तनोति ॥ ३७॥
अमी रजनीचरा राक्षसा हरय एव वानरा एव हुतभुजोऽग्नयः । तेषां लोहितमुखत्वात् । तेषां धूमच्छायां दधति धारयन्ति । कृष्णवर्णत्वाद्रक्षसाम् । वानरा भूमिष्टा राक्षसा उपरिवर्तिनस्तथा दृश्यन्त इति भावः । कीदृशानाम् । नितरामत्यर्थेनोद्दीप्राणामुद्दीप्तिशीलानाम् । रजनीचराः कीदृशाः । छिदुरा भङ्गुरा श्रीर्येषां ते। धूमोऽपि भङ्गुरश्रीक एव भवति । किमपीति । कपयो वानराः किमप्यनिर्वचनीयमाश्चर्यमद्भुतं कर्म तथा विदधति यथामूर्दशाननकीर्तयो दिकूलेभ्योऽपसरन्ति पलायन्ते । त्रुट्यन्तीति यावत् । ध्रुवमुत्प्रेक्षायाम् । अवपतन्त्या अधःपतन्त्या रक्षःश्रेण्या विमुक्कं त्यक्तं यन्नभोन्तरमाकाशमध्यं तस्य प्रतिभरणिकया प्रतिभरणेन निःस्थामानो बलशून्याः। क्षीणा इत्यर्थः । स्थाम बलम् । शून्यदेशस्य प्रतिभरणं युज्यत एव । तथा च रावणकीर्तयो नभोमध्यस्य रक्षोव्याप्तत्वादिशामन्ते स्थिताः । अनन्तरं नभोमध्यस्थरक्षोविनाशेन पुनर्दिगन्तानभोमध्य एव स्थिता इति भावः । अहह खेदे । दारुणं भीषणम् । रक्ष इति । लङ्काधिपः किमप्यनिर्वचनीयं संतमसं विश्वव्यापकं भयम्, अथ च गाढान्धकारं तनोति विस्तारयति । रोषाहासाभ्यां येऽग्निप्रसरास्तैस्तडित्वान्दीप्तिमान् । अथ च लकाधिपस्तडित्वान्मेघ इति व्यस्तरूपकम् । रक्षसा निपिष्टा ये कपिमुक्तमहीध्रास्तेषां चूर्णेन रजसा पूर्णमन्तरमवकाशो यासां ताभिर्बाणवृष्टिभिरुज्जिहान उद्गच्छन् । प्रभवनिति यावत् । अन्योऽपि मेघोऽन्धकारं वृष्टिं च तनोतीति भावः । संभूय मिलित्वा । भूयो१. 'उद्दीप्तानाम्'. २. 'अथ'. ३. 'दशन-'. ४. 'लङ्कापतिः'.
अन० २१
For Private and Personal Use Only