________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
६ अङ्कः अनर्घराघवम् ।
२३५ दण्डाधिक्यभयात्कथंकथमपि स्कन्धोपनेयान्मणी___ नप्यस्मै परिशोधयत्यपदिशन्निःसंपदः खाकरान् ॥ ३० ॥ हेमाङ्गदः--(सभयम् ।) कथमयं परापतित एवासमसमरहेपेहेषमाणवनायुजवाजिनिवहवितीर्णकीनाशकासरकर्णज्वरेण प्रजविना रथेन कार्मुकपाणिमहावीरः। रत्नचूड:-(सभयाद्भुतम् ।) कल्पान्तक्रूरसूरोत्करविकटमुखो मानुषद्वन्द्वयुद्ध
क्रीडाकण्डूयदूर्जखलसकलभुजालोकभूयोविलक्षः । संभूयोत्तिष्ठमानखपरबलमहाशस्त्रसंपातभीमा
नुवी गीर्वाणगोष्ठीगुरुमदनिकषो नैकषेयः पिधत्ते ॥ ३१ ॥
रानिजोत्पत्तिस्थानानि निःसंपदो गतसंपत्तीनपदिशन्कुर्वन्सन् , कथयन्निति वा, अस्मै रावणाय मणीन्परिशोधयति पूरयति । दण्डाधिक्यभयात् । दण्डो दमस्तदाधिक्यत्रासात् । ये मनोज्ञास्ते दत्ता इदानीममनोज्ञानाप परिशोधयितुं दण्डः स्यादिति भावः । कीदृशान्मणीन् । कथंकथमपि महता कष्टेन स्कन्धैर्बाहुमूलैर्वाजिभिर्वोपनेयानुपनतीकर्तुं शक्यान् । अतिस्थूलानित्यर्थः । 'स्कन्धो वाजिभुजामूले समानायसमूहयोः' इति मेदिनीकरः । 'परिच्छिन्नं फलं यत्र स्कन्धस्कन्धेन दीयते । स्कन्धोपनेयं तं प्राहुः संधि मन्त्रविदो जनाः ॥' इति नीतिः । 'उत्पत्तिस्थानमाकरः' इति धरणिः । आपतितः समागतः । हेषमाणः शब्दविशेषं कुर्वन् । वनायुर्देश विशेषः । तत्र भवा वनायुजा अश्वविशेषाः किनाशो यमः । “किनाशः कर्षके क्षुद्रे कृतान्तोपांशुघातिनि' इति विश्वः । कासरो महिषः । 'लुलायो महिषो वाहद्विषत्कासरसैरिभाः' इत्यमरः । कर्णज्वरः श्रवणव्याधिः । प्रजविनातिवेगवता । कल्पान्तेति । नैकषेयो निकषापुत्रो रावणः । संभूय मिलित्वा । उत्तिष्टमान आक्रममाणो यः स्वबल आत्मबल: शत्रुबल. स्तयोर्महाशस्त्रसंपातेन भयानकामुर्वी पृथिवीं पिधत्त आच्छादयति । 'अपिधानतिरोधानपिधानाच्छादनानि च' इत्यमरः । कीदृशः । कल्पान्ते प्रलयकाले क्रूरो भयंकरो यः सूरोत्करः सूर्यसमूहस्तद्वद्विकटं विकरालं मुखं यस्य सः । मानुषद्वन्द्वयुद्धक्रीडया कण्डूयन्त ऊर्जस्वला वलवन्तश्च ये सकलभुजास्तेषामालोकनेन भूयोविलक्षोऽयन्तविलक्षः । द्वन्द्वयुद्धमेकतुलायुद्धम् । कण्डूयन्त इति 'कण्डादिभ्यो यकू' । उत्तिष्ठमान इति । 'उदोऽनूर्ध्वकर्मणि' इति तङ् । निकषो घर्षणप्रस्तरः । दक्षिणतो दक्षिणस्यां दिशि ।
१. 'अपि दिशन्'. २. 'सहर्ष-'. ३. 'महारथः'. ४. 'भटनिकषः'. ५. 'कैकसेयो विधत्ते'.
For Private and Personal Use Only