________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२३४
काव्यमाला। क्रोधङ्क्राक्षिरक्तोत्पलरचितवियत्तोरणसञ्जि बिभ्र
द्वक्त्राणि प्रत्यनीकप्रसरसरभसो निर्जिहीते दशास्यः ॥ २८ ॥ हेमाङ्गदः-(निर्वर्ण्य ।) अहो, दृष्टचरमप्यस्य सानामिकमोजायितमयातयाममिव भीषयते । सखे रत्नचूड,
मरुत्वद्दम्भोलिक्षणघटितघोरश्वयथुना
निसर्गोदरेण प्रसभमुरसा पीतगगनः । श्रियं देवद्रीची निजभुजवनोदामकरिणी
___ मयं कुर्वन्वीरः स्मरसि कथमासीदशमुखः ॥ २९ ॥ रत्नचूड:-सखे, किमुच्यते । महतामप्युपरि किमप्ययं रावणः । एनं कल्पतरूद्भवैरसुकरव्याजैः सदा भूषणै
राराध्नोति सुराधिपः किमपरं दीनो नदीनां पतिः । कीदृशः। क्रोधेन क्रूराणि भयानकान्यक्षीण्येव रक्तोत्पलानि तै रचिता निर्मिता वियत्याकाशे तोरणस्रजो यैस्तादृशानि मुखानि बिभ्रद्दधत् । पुनः कीदृशः । न्यञ्चन्ती अत्यर्थ निम्ना भवन्ती या धरित्री पृथिवी तस्यां धृतश्चरणभरो येन सः । रावणस्य चत्वारि चरणानीति रामायणम् । चन्द्रहासो रावणखड्गस्तत्रैका दृष्टियस्य सः । व्यावलगन्त इतस्ततश्चलन्तो योगपद्येनैकदैवोत्सुका उत्कण्ठिताश्च ये सकला भुजा विंशतिवाहवस्तैराकान्तं दिक्चक्रवालं दिमण्डलं येन सः । प्रत्लनीकं शत्रुसैन्यं तत्र प्रसरणं गतागतं तत्र रभसो यस्य सः 'चक्रवालं तु मण्डलम्' इत्यमरः । दृष्टचरं पूर्वदृष्टभ् । साङ्ग्रामिकं सङ्ग्रामाय भवति । 'तस्मै प्रभवति संतापादिभ्यः' इति ठक् । ओजायितमोजखिता। प्रागल्भ्यमिति यावत् । क्य सलोपश्च । अयातयाममिवेति । जीर्ण परिभुक्तं च यातयामम् । तदितरत् । अननुभूतमिवेत्यर्थः । 'यज्जीर्ण परिभुक्तं च यातयामं तदुच्यते' इत्यमरः । भीषयते त्रासयति । 'भीस्म्योर्हेतुभये' इति तद् । 'भियो हेतुभये घुक्' । मरुत्वदिति । अयं रावणो देवदीची देवगामिनी थियं प्रसभं हटेन निजभुजवनोद्दामकरिणी कुर्वन्कथमासीदिति स्मरसि । उरसा हृदयेन पीतमाच्छादितं गगनं येन तादृशः। कीदृशेन । निसर्गोदरेण स्वभावतो विशालेन । मरुत्वत इन्द्रस्य दम्भोलिना वज्रेण क्षणं घटितो घोरो महाश्वयथुः 'शोथ' इति प्रसिद्धो यत्र तादृशेन । श्वयथुरिति 'टु ओश्वि गतिवृद्धयोः' । 'द्वितोऽथुच्' । एनमिति । सुराधिप इन्द्रः कल्पतरूद्भवैरत एवासुकरव्याजैः । कल्पतरूणां यथेष्टप्रदत्वात् । भूषणैरलंकरणैः सर्वदा एनं रावणमाराप्नोति सेवते । ननु भवतु नाम स्वाराज्यप्राप्त्यर्थ शक्रस्य तदाराधनं जलरूपः समुद्रोऽपि तमारानोतील्याह-किमपरं किं च नदीनां पतिः समुद्रो दीनो दुःखितः स्वाक
For Private and Personal Use Only