________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
६ अङ्कः]
अनर्घराघवम् ।
२३३
वीरश्रीसहपांसुकेलिसुहृदो मन्दोदरीबन्धुता
शौटीरासुरसुन्दरीसुरभयः क्षुभ्यन्ति रक्षोगृहाः ॥ २६ ॥ हेमाङ्गदः--(विहस्य ।) नूनमिदानीमत्र दृष्ट्वा राघवमेकराक्षसवनखच्छन्ददावानलं
जानक्यां निजवल्लभस्य परमं प्रेमाणमालोक्य च । कासन्ती मुहुरात्मपक्षविजयं भङ्गं च मुग्धा मुहु
या॑यन्ती ध्रुवमन्तरालपतिता मन्दोदरी वर्तते ॥ २७ ॥ रत्नचड:-(सकरुणस्मितम् ।) वयस्य, विबुधराजविजयविक्रमक्रीतचेतसा वृद्धपितामहेन स्वयं परमेष्ठिना प्रतिष्ठितेन्द्रजिन्नामधेयशेषस्य तादृशस्य तनूजस्य शुचा विचेष्टमानामरातिगृहिणीमपि नैवमुपक्रोष्टुमर्हसि । (पुरोऽवलोक्य च ।) हस्तदक्षिणेन कथमयं द्विधा विभज्यते महाजनः । (निरूप्य च सभटाकौतुकम् ।) सखे, पश्य पश्य । न्यञ्चन्यञ्चद्धरित्रीधृतचरणभरश्चन्द्रहासैकष्टि
यावल्गद्योगपद्योत्सुकसकलभुजाक्रान्तदिक्चक्रवालः । मतो गर्वे' इति शाश्वतः । सुरभिर्मनोहरः, ख्यातो वा । क्षुभ्यन्ति चलीभवन्ति । 'शुभ संचलने' । दृष्टेति । दावो वनम् । 'वने च वनवह्नौ च दवो दावः प्रकीर्तितः' इति विश्वः । राक्षसा एव वनम् । एकश्चासौ राक्षसवनखच्छन्ददावानलश्चेति कर्मधारयः । तादृशं राघवं रामं दृष्ट्वा निजवल्लभस्य रावणस्य जानक्यां सीतायां परमं श्रेष्ठं प्रेमाणमवलोक्य च आत्मपक्षविजयं भङ्गं च अर्थादात्मपक्षस्यैव कान्तीच्छन्ती मुग्धा अज्ञा एतत्सकलं वाक्यार्थ ध्यायन्ती चिन्तयन्ती ध्रुवं निश्चितमन्तरालपतिता मध्यस्थिता सती मन्दोदरी रावणपत्नी वर्तते । तदयं वाक्यार्थः—रामस्य रक्षोविनाशकारणत्वात्वपक्षस्य जयमाकान्ती रामभङ्गे च रावणस्य सीताविषयकं प्रेमाणमालोक्यावश्यं मां परित्यज्य रावणः सीतावश एव भविष्यतीत्यतो रामस्य जयपराजयाभ्यामपि न ममेष्ट. मित्युभयपक्षमध्ये निपतिता मन्दोदरी सचिन्तास्तीति । 'प्रेमा ना प्रियता हार्दम् इत्यमरः । परमेष्ठी ब्रह्मा । प्रतिष्टितं कृतं यदिन्द्रजिन्नाम तदेव शेषोऽवशेषो यस्य तस्य । मृतस्येत्यर्थः । विचेष्टमानां विगतचेष्टाम् । अरातिगृहिणीं शत्रुभायो मन्दोदरीमुपक्रोष्टुं निन्दितुम् । 'अपक्षेप्तुम्', 'उपक्षेप्तम्' इति च पाठयोरपहसितुमुत्क्षेप्नुमिति वार्थः । अहसि । हे हेमाङ्गद इति शेषः । दक्षिणेन प्रदेशेन विभज्यते विभागवान्भवति । कर्मकर्तरि तङ् । न्यश्चदिति । दशास्यो निर्जिहीते निर्गतो भवति । लङ्कात इति शेषः ।
१. 'शौण्डीर-'. २. 'इदानीम्' इति पुस्तकान्तरे नास्ति. ३. 'एव'. ४. 'मुहुः'. ५. 'प्रतिष्ठापित-'. ६. 'कथमत्र'. ७. 'चित्तः'.
For Private and Personal Use Only