________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२३२
काव्यमाला।
द्वितीयः-सखे रत्नचूड, किमुच्यते । रक्षांसीति पुरापि संशृणुमहे वीरस्तु कस्तादृशो
जागर्ति स्म जगत्रयीविपदलंकर्मीणदोर्विक्रमः । शश्वद्वारभुवि प्रशस्तिरचनावर्णायमानेक्षण
श्रेणीसंभृतगोत्रभिन्मयजयस्तम्भो यथा रावणः ॥ २५ ॥ रत्नचूड:-सखे हेमाङ्गद, पश्य पश्य । पौलस्त्यपत्तनप्रतोलीषु दीयमाने संनाहपटहे
दिग्दन्तावलदन्तमौक्तिकमयद्वास्तोरणस्रग्विणो
गीर्वाणाधिपतिप्रतीष्टनिगडोन्मृष्टान्यबन्दीशुचः ।
हणमिति यावत् । डिम्भैः कीदृशैः । प्रतिघाती विपक्षस्तस्य विक्रमः पराक्रमस्तस्य कथायामुपालम्भ आक्रोशस्तत्र वैतण्डिकैर्दूषणमात्रदायिभिः । 'कथादिभ्यष्टक्' इति ठक् । तिस्रः खलु कथा भवन्ति-वादो जल्पो वितण्डा चेति । तत्र वादो नाम प्रव. क्तकः शिष्यादिविषयः । विजिगीषुकथा जल्पः । वितण्डा तु [प्रतिपक्षस्थापनहीना। वितण्ड्यते आहन्यतेऽनया प्रतिपक्षस्थापनमित्युपपत्त्या परपक्षोपघातेन पारिशेध्यात्स्वपक्षसिद्धिरस्याः प्रयोजनं प्रतीयते । अपरमप्रस्तुतत्वान विवेचितमिति । रक्षांसीति । रक्षांसि सन्तीति पुरापि संशृणुमहे पूर्वमेवास्माभिः श्रुतम् । 'पुरि लुङ् चास्मे' इति चकाराद्भूते लट् । यद्यपि संयोगादिसूत्रे अकर्मकादित्यनुवृत्ताविह तङ् न प्राप्नोति, तथापि कर्मव्यतीहार एवात्र तङ् । अन्योन्यं शृणुम इत्यर्थात् । यद्वा अकर्मकादिति तत्रानुवर्तत इति प्रायिकम् । तु पुनः यः पुरुषो जगत्रयीविपदामलंकर्माण: समर्थो बाहुपराक्रमो यस्य तादृशः को जागर्ति । अपि तु यथा रावणस्तथा न कोऽपीत्यर्थः । प्रशस्तिरचना प्रशंसालिखनं तत्र वर्णायमाना अक्षरायमाणा या ईक्षणश्रेणी नेत्रपतिस्तया संभृत उपचितो गोत्रभिदिन्द्रस्तन्मयस्तत्वरूपो जयस्तम्भो यस्य सः । अन्यस्मिन्नपि जयस्तम्भे प्रशस्तिलिखित्वा ध्रियत इति ध्वनिः । रावणेन द्वारभूमाविन्द्रशरीरजयस्तम्भे तदीयेक्षणसहस्राण्येव प्रशस्तिरचना लिखित्वा धृतेति भावः । पत्तनं पुरम् । प्रतोली रथ्या। संनाहार्थ पटहः संनाहपटहः । संनहननिमित्तढक्केत्यर्थः । दीयमाने ताज्यमाने। धातोरनेकार्थत्वात् । लोकोक्तिरियम् । दन्तावलो हस्ती । 'दन्तशिखात्संज्ञायाम्' इति वलन् । 'वले' इति दीर्घः । द्वारिं तत्र तोरणसक्तोरणमाला तद्योगात्प्रशंसायाम् । 'अस्मायामेधास्रजो विनिः' । गीर्वाणाधिपतिरिन्द्रः । प्रतीष्टः सोढः । सोऽपि निगडे बद्ध इत्यर्थः । बन्दीनां शोक उन्मृष्टोऽपनीतः । वीरश्रिया समं पांसुकेलिधूलिक्रीडा । मन्दोदरी रावणवधूः । सा त्वसुरकन्येति तत्संबन्धवशेन शौटीरा गर्ववती । 'शौटीरस्तु
For Private and Personal Use Only