________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
६ अङ्कः] अनर्घराघवम् ।
२३१ (ततः प्रविशति विद्याधरद्वयमाकाशयानेन ।) एक:-अहो बहोः कालादनया गगनवीथ्या निरातङ्कमिव संचरावहे । (अधोऽवलोक्य ।)
देवेन्द्रोपनिवेद्यनन्दनवनस्रक्तोरणश्लाधिनी
लङ्केयं दशकण्ठविक्रमसखी यस्यां समन्तादिमाः । युद्धालोकनकौतुकोन्मुखवधूसंकीर्णकर्णीरथा
रथ्याः किं कथयामि यान्ति यदमी न व्योम्नि वैमानिकाः॥२३॥ (सखेदाद्भुतम् ।) सखे हेमाङ्गद,
एताः पश्य पलादपत्तनभुवः सौत्रामणीनां दृशा
मस्राम्भोभिरदेवमातृकगृहारामाभिरामश्रियः । एतासु प्रतिघातिविक्रमकथोपालम्भवैतण्डिकैः
क्लुप्तेन्द्रध्वजिनीजयानुकृतिभिर्डिम्भैरपि क्रीडितम् ॥ २४ ॥ पुण्यभूमिः । वीथ्यङ्गनं, वर्त्म वा । 'वीथी पथ्यङ्गनेऽपि च' इति विश्वः । संचरावहे 'समस्तृतीयायुक्तात्' इति तङ् । निरातङ्कमिति क्रियाविशेषणम् । देवेन्द्रति । इयं लङ्कास्तीति शेषः । कीदृशी । देवेन्द्रेणोपनिवेद्या उपभोग्या या नन्दनवनरङ् नन्दनवनसंबन्धिनी माला तस्यास्तोरणेन वन्दनमालिकया श्लाधिन्यादरणीया । दशकण्ठविक्रमसखी रावणपराक्रमसङ्गिनी । यस्यां लङ्कायामिमा रथ्या नगरमध्यगतप्रकीर्णमार्गाः किं कथयामि । अपि तु कथयितुं न शक्नोमीत्यर्थः। कीदृशीः। युद्धालोकनकौतुकोन्मुखा या वध्वो राक्षसस्त्रियस्तासां संकीर्णा निरन्तराः कीरथाः स्त्रीरथाः यत्र तादृशीः । वैमानिका देवा व्योनि यन यान्ति । रावणयुद्धालोकनभयात्तदपि किं कथयामीत्यनुबङ्गः । क्वचित् 'मान्ति' इति पाठः । तच्च स्फुटं तत्राप्यनुषङ्गः । 'कर्णीरंथः प्रवहनम्'इत्यमरः । विमानेन चरति वैमानिकः । 'चरति' इति ठक्। सखेदमिति । इन्द्रवन्द्यापि लङ्का कपिना दग्धेति भावः । एता इति । एताः पलादपत्तनभुवो राक्षसनगरभूमीः पश्य । कीदृशीः । सुत्रामा इन्द्रस्तत्संबन्धिनीनां दृशां चक्षुषामनाम्भोभिरध्रुजलैरदेवमातृका नद्यम्वुपालिता ये गृहारामा गृहवनानि तैरभिरामाः धियो यत्र तादृशीः। यद्वा गृहाण्याराम उपवनं च तैमनोहरश्रियः। 'गृहारामास्तु निष्कुटाः' इत्यमरः । 'आरामः स्यादुपवनम्' इति च । एतासु भूमिषु डिम्भैरपि बालकैरपि क्रीडितम् । कुप्ता निराकृता या इन्द्रस्य ध्वजिनी सेना तस्या जयानुकृतिभिर्जयानुकारैः । अनुकृतिस्तुल्यता । वेषग्र
१. 'आकाशयानेन विद्याधरद्वयम्'. २. 'अधस्तादवलोक्य'. ३. 'बाप्पाम्भोभिः'. ४. 'प्रतिपक्ष-'.
For Private and Personal Use Only