________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
काव्यमाला।
(नेपथ्ये।) भो भो यूथपतयः, विलुम्पन्तु भवन्तो लङ्कागोपुरप्राकारतोरणानि । संनद्धेन्द्रायुधमविरलारम्भिगीर्वाणबाण
श्रेणीवर्ष तदवजगृहे येन दुष्टग्रहेण । माल्यवान्-(सोद्वेगम् ।) आः, किमनेन श्रावयितव्योऽस्मि । (इति कर्णी पिदधाति ।)
(पुनर्नेपथ्ये ।) दृष्ट्वा कांचित्प्रहरणमयीं वीरयज्वानमिष्टिं
दिष्टया सोऽयं समुपशमितः शक्रजिल्लक्ष्मणेन ॥ २२ ॥ माल्यवान्-सत्योऽयम् 'अतिदुःखो निर्दुःखः' इति लोकप्रवादः । यदस्मिन्नपि समूलघातमभिन्नति व्यतिकरे तथैव श्वसिमः ।
शुकः-(ऊर्ध्वमवलोक्य ।) यथा समन्तादम्बरचरविमानवीथयः ककुभां मुखानि पर्यवष्टभ्नन्ति, तथा शङ्के दुर्वारदारुणक्रोधवडवानलनिपीयमानशोकसमुद्रो दाशरथिविजयाय संनद्यते देवः । __ सारण:-(सविषादमात्मगतम् ) कष्टम् । कथं दाशरथिविजयायेत्यविशिष्टोपपत्तिककर्तृकर्मकारकार्थविषयं वयस्यवचनम् ।
माल्यवान्-(उत्थाय ।) तदस्माभिरपि जरसा दूषितस्यात्मनः प्रक्षालनाय प्राप्तं शस्त्रधारातीर्थम् । (इति सशुकसारणो निष्क्रान्तः ।।
विष्कम्भकः। द्वितीया । इन्द्रजिद्विनाशं श्रुत्वा रामसेनापतिराह-भो भो इत्यादि । विलुम्पन्त्वपनयन्तु । 'तोरणोऽस्त्री बहिर्द्वारम्' इत्यमरः । वर्ष वर्षणम् । अवजगृहे वृष्टिनिरोधः कृतः दुष्टग्रहेणेति ग्रह आसङ्गः। पिदधात्याच्छादयति । वीरो यज्वा याज्ञिको यत्र तामिष्टिं यज्ञम् । समुपशमितो मारितः । अन्येनापि दुष्टग्रहेण शनैश्चरादिनेन्द्रधनुःसहितं वर्षणमवगृह्यते । तच्च कारीरीयज्ञादिना शाम्यत इति ध्वनिः । अतिशयितं दुःखं यस्य सोऽतिदुःखः । समूलघातं समूलं हत्वेत्यर्थः । 'समूलाकृतजीवेषु हन्कृञ्ग्रहः' इति णमुल । व्यतिकरे दैवविपाके । श्व सिमो जीवामः । अम्बरचरा देवाः । वीथयः पतयः। पर्यवष्टश्नन्ति व्याप्नुवन्ति । दारुणो महान् । दूषितस्य मलिनीकृतस्य । तीर्थ
१. 'अतिदुःखोऽतिदुःखः'. २. 'व्यतिरेके'. ३. 'विश्वसिमः' ४. 'अम्बरान्तरचर्यो'. ५. 'पर्यवस्तश्नन्ति'; 'पर्यवस्कन्दन्ति'. ६. 'कष्टं कष्टं दाशरथि-'; 'कथं दाशरथि-'. ७. 'इति निष्क्रान्ताः '.
For Private and Personal Use Only