________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
६ अङ्कः] अनर्घराघवम् ।
२२९ शुकः-(सहर्षम् ।) नूनमस्मदीयैर्विशेषेण किमपि विक्रान्तम् ।
(माल्यवानवधत्ते ।)
(पुनर्नेपथ्ये ।) दो शैलौ हरता पृथक्पृथगथो मूर्धानमुत्क्षिमुना
रामेणापि लघुकृतं पतति यत्तत्कौम्भकर्ण वपुः ॥ २० ॥ माल्यवान्हा वत्स । (इति मूछितः पतति ।) उभौ-(सास्रम् ।) आर्य, समाश्वसिहि समाश्वसिहि ।
माल्यवान्–(आश्वस्य ।) वत्सौ, जीवतो रामभद्रस्य मैथिलीहरणादेतदस्माभिरान्तरेण चक्षुषा विषयीकृतमेव । किमिदानीं समाश्वसितव्यमस्ति ।
शुकः-धिकष्टम् । 'कौम्भकर्ण वपुः पतति' एतदपि देवेनाज्ञापयितव्यम् ।
माल्यवान्-वत्स, अद्यापि रावणस्याज्ञा । नूनमन्योन्येषां वैहासिकाः कपयो दशकण्ठमुल्लुण्ठयन्ति । सारण:-आः क्षुद्राः,।
यद्यस्ति वीर्यमस्त्येव तत्कर्म कथयिष्यति । मेघनादमजित्वैव धिक्पहासविभीषिकाम् ॥ २१ ॥
कुरुतमित्यर्थः । सहर्षमिति । रामबलस्याहितभ्रमादिति भावः । अवधत्त इति । कुतो भूमेर्भर इति ज्ञातुमिति भावः । नन्वतिगुरुकुम्भकर्णशरीरपातेन कुतो न भरो भूमेरत आह—दोः शैलाविति । यद्यस्माद्धेतोः कौम्भकर्ण कुम्भकर्णसंवन्धि वपुः शरीरं तद्रामेणैव लघूकृतं सत्पतति । कीदृशेन । पृथक्पृथग्यथा भवति तथा दोःशैलौ बाहुपर्वतौ हरता छिन्दता । अथो अनन्तरं मूर्धानं मस्तकमुत्क्षिप्नुना ऊचे प्रेरणशीलेन । अतो न कश्चिद्भर इति भावः । 'त्रसिगृधिधृषिक्षिपेः नुः' इति क्रुः । अन्तरेण मानसेन चक्षुषेव चक्षुषा ज्ञानेन विषयीकृतं ज्ञातम् । 'विषयो ज्ञानमुच्यते' इति विश्वः । वैहासिका हास्यकराः । उलुण्ठयन्त्युपहसन्ति । प्रहास उपहासस्तद्रूपा विभीषिका । धिग्योगे
१. 'वत्स शुक'. २. 'समाश्वसितम्'. ३. 'आज्ञापितव्यम्'; 'अज्ञायि'. ४. 'राव. णाज्ञा'. ५. 'उल्लूठन्ति'; 'उल्टयन्ति'. ६. 'अजित्वापि'; 'अजित्वा तु'.
For Private and Personal Use Only