________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२२८
काव्यमाला। सारण:-(श्रुत्वा सहर्षम् ।) आर्य, जातं जातमवलम्बनम् । यदयं प्रतिबुध्य कुमारकुम्भकर्णः पुरस्कृत्य च मेघनादमभ्यमित्रीणः संवृत्तः । । माल्यवान्—(निःश्वस्य ।) खस्ति विजयेतां रामलक्ष्मणौ कुम्भकर्णमेधनादौ ।
शुकः-(सविषादमात्मगतम् ।) शान्तं शान्तम् । कथमविशिष्टकर्तृकमभावमुभयत्र द्विवचनं प्रयुक्तमार्येण ।
माल्यवान्-(सखेदम् । वत्सौ शुकसारणौ, अद्य खल्वियं राक्षसलक्ष्मीः सर्वथा कुम्भकर्णमवलम्ब्य वर्तते । इदं तु न विद्मः ।
अग्रजं वा दशग्रीवमनुजं वा विभीषणम् । अन्वयव्यतिरेकाभ्यां वीरः कमभिषेक्ष्यति ॥ १९॥
(नेपथ्ये।) मा भैष्टं कमठेन्द्रपन्नगपती कश्चिन्न वैशेषिको
भूमेरद्य भरः पतिः पलभुजामाज्ञापयत्येष वाम् । वेशने' उपपूर्वः । लोटि मध्यमपुरुषबहुवचने 'धि च' इति सलोपः । कीदृशाम् । उद्धरा उद्योगिनो ये शरास्तेषां ज्वाला तेजस्तदेव मुखं यस्यास्ताम् । अन्यापि ज्वालामुखी देवता भवतीति ध्वनिः । अद्यापि रामाद्भयमस्ति । अपि तु नास्ति भयमिति । इन्द्रजितोऽपि मेघनादस्यापि चित्तं लक्ष्मणवधे बद्ध उत्सवो येन तादृशं जातम् । मध्यमः पौलस्त्यः कुम्भकर्ण आयुधं शस्त्रं धृतवान् । अतो रामाद्भयं न विधेयमिति भावः । रामादिति 'भीत्रार्थानां भयहेतुः' इत्यपादानता । पुरस्कृत्याग्रतः कृत्वा । अभ्यमित्रीणो रणे शत्रोरभिमुखगामी । 'अभ्यमित्राच्छ च' इति चकारात्खः । विजयेतां रामलक्ष्मणावित्यत्र रामलक्ष्मणौ कर्मभूतौ । कर्तृपरत्वभ्रान्त्या सविषादमाह-शान्तमिति । उभयत्रेति । रामलक्ष्मणावित्यत्र कुम्भकर्णमेघनादावित्यत्र चेत्यर्थः । अन्वयव्यतिरे. काभ्यां जयपराजयाभ्यामित्यर्थः । अन्वयेनाग्रज ज्येष्ठम्, व्यतिरेकेणानुजं कनिष्ठम् । रावणादीनां मरणादिति भावः । वीरः कुम्भकर्णः । मा भैष्टमित्यादि । पलं मांसं भुञ्जते पलभुजो राक्षसास्तेषां पतिः स्वामी रावणः, हे कमठेन्द्रपन्नगपती कूर्मराजसर्पराजौ, वा युवामित्याज्ञापयति-भूमेवैशेषिको विशेषभवः । अध्यात्मादित्वाञ् । कश्चिन्न भरः अतो मा भैष्टं मा भयं कुरुतम् । कुम्भकर्णस्यातिगुरुशरीरपातेन भूमेरधिको भरः स्यात् । तथा च तद्धारकत्वादावामपि भरभागिनौ भवाव इति भयं मा
१. 'जातम्' इत्येकवारमेव पुस्तकान्तरे. २. 'मेघनादौ च'. ३. 'राजलक्ष्मीः '. ४. 'अवलम्बते'.
For Private and Personal Use Only