________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
६ अङ्कः अनर्घराघवम् ।
२२७ अभ्यस्यन्ति तथैव चित्रफलके लङ्कापतेस्तत्पुन
वैदेहीकुचपत्रवल्लिरचनाचातुर्यमर्धे कराः ॥ १७ ॥ माल्यवान-(निःश्वस्य ।) हा वत्स रावण, कथमद्यापि सैव हृदयपरिस्पन्दमुद्रा । (शुकं प्रति ।) वत्स, अथ गोपुरगौल्मिकवलाध्यक्षेण वत्सेन नरान्तकेन किं प्रतिपन्नम् !
शुकः-(निःश्वस्य ।) मातामह, कृतैव कुमारेण द्वारमर्यादा । परमङ्गदेन सोऽपि । (इत्य|क्ते सास्रमधोमुखस्तिष्ठति ।)
माल्यवान् हा वत्स दशग्रीवनन्दन, कथमिदं तेंव द्रष्टुमेतावन्तं. कालमस्माकमायुः।
(नेपथ्ये ।) भो भो महापार्श्वप्रभृतयः सैनिकाः, व्यावर्तध्वमुपाध्वमुद्धरशरज्वालामुखी मातरं
देवीमस्त्रमयीं प्लवंगपशवः पश्यन्ति पृष्ठानि वः । चेतः शक्रजितोऽपि लक्ष्मणवधे बद्धोत्सवं मध्यमः
__ पौलस्त्यः स्वयमायुधं विधृतवानद्यापि रामाद्भयम् ॥ १८ ॥ ककुभो दिशः परिपूरयन्ति । कौक्षयकं खड्गं प्रोञ्छन्ति मार्जन्ति । तथैवार्धे कराश्चित्रफलके चित्ररचनाधारे वैदेह्याः कुचे या पत्रवलिः पत्रावली तस्या रचना लिखनं तत्र वैदग्ध्यं कौशलमभ्यस्यन्ति । अर्धे इति 'प्रथमचरम-' इत्यादिना जसि वा सर्वनामसंज्ञायां शीभावे रूपम् । 'कटकोऽस्त्री नितम्बोऽद्रेः' इत्यमरः । 'कौक्षेयको मण्डलाग्रः करवाल: कृपाणवत्' इति च । सैव हृदयपरिस्पन्दमुद्रा स एव सीतास्तनपत्ररचनायां हृदयावष्टम्भ इत्यर्थः । परिस्पन्दश्चेष्टा, अवष्टम्भो वा । मुद्रा निश्चयः । गोपुरं पुरद्वारम् । 'गोपुरं तु पुरद्वारि' इत्यमरः । गुल्मः सेना, घटं वा । तत्र नियुक्तो गौल्मिकः । 'तत्र नियुक्तः' इति ठक् । 'गुल्मः सेनाघट्टभिदोः सैन्यरक्षणरुग्भिदोः' इति मेदिनीकरः । अध्यक्षशब्दः प्रत्येकमभिसंबध्यते । नरान्तको रावणपुत्रः। प्रतिपन्नं कृतम् । मर्यादा निरोधः । अङ्गदेन वालिपुत्रेण । व्यावर्तध्वमित्यादि। ये सैनिकाः, व्यावर्तध्वम् । किमिति पलायध्वम्, निवर्तध्वमित्यर्थः। यतो हेतोः प्लवंगपशवः कुत्सित. वानरा को युष्माकं पृष्ठानि पश्यन्ति, अतोऽस्त्रमयीं देवीमुपाध्वम् सेवध्वम् । आस उप
१. 'सैव ते हृदयपरिपन्थिनीपरिस्पन्दमुद्रा'. २. 'मातामह' इति पुस्तकान्तरे नास्ति. ३. 'सोऽपीत्थम्'. ४. 'तव' इति पुस्तकान्तरे नास्ति.
For Private and Personal Use Only