________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२२६
काव्यमाला।
माल्यवान्-(अश्रूणि स्तम्भयन् ।) वत्स, विद्वानपावृत्तमिव खभाग्यं न तावदात्मानमहं ब्रवीमि । महामुनेर्विश्रवसस्तपोभिर्निवापबीजं यदि नः कुलं स्यात् ।। १५ ॥
(प्रविश्य पटाक्षेपेण संभ्रान्तः शुकः ।)
शुकः
प्रहस्तधूम्राक्षमहोदरादीन्व्यापाद्य सेनाधिपतीनमात्यान् । स एष लङ्कामुपरुध्य रामः शाखामृगैरर्णवमातनोति ॥ १६ ॥
माल्यवान्—(सविषादम् ।) पुरस्तादेव दृष्टमिदमस्माभिः । देशकालव्यवहितस्यापि प्रमेयग्रामस्य यथामुखीनमादर्शतलं हि स्थविरबुद्धिः । (विमृश्य । आकाशे ।) साधु रामभद्र, साधु । विजिगीषोरदीर्घसूत्रता हि कार्यसिद्धेरवश्यंभावः।
सारणः-सखे शुक, अथ किंविधानो यातुधानेश्वरः । शुकः-(सखेदस्मितम् ।) सखे, किं तस्य विधानम् ।
श्रुत्वा दाशरथी सुवेलकटके साटोपमधे धनु
__टंकारैः परिपूरयन्ति ककुभः प्रोञ्छन्ति कौक्षेयकान् । चितम् । दशकंधरादपि यदि भारः स्खलति तदास्य भारस्य स्खलनमेव स्वभाव इति भावः । विद्वाजानन् । 'विदेः शतुर्वसुः' । अपावृत्तमपगतम् । पुलस्त्यपुत्रो विश्रवाः । विश्रवा रावणपिता । निवापो मृतस्य जलाजल्यादिदानम् । 'निवापः पितृदानं स्यात्' इत्यमरः । बीजं कारणम् । यदि स्यात्। तदा स्यादित्यर्थः । पटी जवनिका । प्रहस्तादयो योधाः । व्यापाद्य विनाश्य । उपरुद्धय वेष्टयित्वा । शाखामृगो वानरः । अर्णवमिवार्णवम् । ननु भावि कार्य पुरस्तादेव कुतो दृष्टमित्यत आह-देशकालेति । हि यतः । स्थविरबुद्धिवृद्धमतिः । देशकालव्यवहितस्यापि प्रमेयसमूहस्य यथामुखीनं मुखस्य सदृशं दृश्यते यत्र तादृशमादर्शतलं भवतीत्यर्थः । मुखस्य सदृशं यथामुखम् । 'यथामुखसंमुखस्य दर्शनः खः' । आदर्शो दर्पणः । तलशब्दस्याजहल्लिङ्गत्वात्तलम् । वुद्धिरिति सामानाधिकरण्यम् । अदीर्घसूत्रताचिरक्रियता । 'दीर्घसूत्रश्चिरक्रियः' इत्यमरः' । किं विधानं यस्य सः। किं प्रश्ने, निन्दायां वा । यातुधानो राक्षसस्तस्येश्वरो रावणः । किं तस्य विधानम् । अपि तु न किमपि । श्रुत्वेति । सुवेलो गिरिस्तस्य कटके नितम्बे दाशरथी रामलक्ष्मणौ कर्मभूतौ श्रुत्वा लङ्कापतेरर्थे करा दश हस्ता धनुष्टंकारैर्धनु:शब्दैः
१. 'खभाग्यातू'. २. 'संमुखीनम्'. ३. 'प्रविदारयन्ति'.
For Private and Personal Use Only