________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
६ अङ्कः] अनर्घराघवम् ।
२२५ मयेनापि जगद्विलक्षणगुणग्रामेण रामेण तु
द्वे गव्यूतिशते हि नाम कियती तीर्णोऽयम!निधिः ॥ १२॥ (दीर्घमुष्णं च निःश्वस्य । आकाशे ।)
तर्षार्तिव्यतिलेलिहानरसनारम्यैर्मुखैरष्टभिः ____ क्रन्दन्ती क्रमशः पपौ दशमुखी वत्सस्य यस्याः स्तनौ । वत्से नैकषि विश्ववीरजननी सीमन्तमुक्तामणिः
सा तादृग्भवती कथं गुणवतः पुत्रस्य किं द्रक्ष्यति ॥ १३ ॥ सारणः-शान्तं शान्तम् । प्रतिहतममङ्गलम् । अनर्थशङ्कीनि बन्धुहृदयानि भवन्ति । किं च आर्य, भुजनिवहविहङ्गिकावलम्बी निबिडगुणौषधृतोऽपि राज्यभारः । खयमपि दशकंधरे धुरीणे स्खलति यदि स्खलनं तदास्य रूपम् ॥ १४ ॥ हतेऽपि सति यद्वयं क्षुद्रा अल्पज्ञास्तथैव पूर्ववदेव आस्महे स्थिताः स्मस्तद्भुजयोर्बलादपि दुर्गस्य बलं दुर्निग्रहं दुःखेन निगृह्यते यत्तादृशं भवतीति कृत्वा । वालिनि हतेऽपि वयं मध्यस्थितसमुद्ररूपदुर्गत्वाज्जीवाम इति भावः । अधुना समुद्ररूपदुर्गस्यापि नास्माकं त्राणं शक्यमिति पर्यवसन्नमर्थमाह-मर्येनापि । मलैन मनुष्येण विलक्षण: श्रेष्ठः । ग्रामः समूहः । 'गव्यूतिः स्त्री कोशयुगम्' इत्यमरः । द्वे इति । शतयोजनविस्तारत्वात्समुद्रस्य । हिरवधारणे । तीर्ण एव । नाम संभावनायाम् । क्रियति किंपरिमाणे । अल्पे इत्यर्थः । 'हिहेताववधारणे' इत्यमरः । 'अम्भोर्णस्तोयपानीयम्' इति च । रामाद्रावणविनाशं निश्चित्य रावणमातरमुद्दिश्याह-तर्षार्तीति । हे वत्से नैकषि निकषात्मजे । 'क्वचिदपवादविषयेऽप्युत्सर्गः प्रवर्तते' इति स्त्रीभ्यो ढकं बाधित्वाण् । सा भवती ताह
प्रसिद्धा गुणवतः पुत्रस्य रावणस्य कथं केन प्रकारेण । विनाशमिति हृदयम् । अमङ्गलत्वाद्विनाशपदं नोपात्तम् । द्रक्ष्यसि । सा का । यस्याः स्तनौ कर्मभूतौ अष्टभिर्मुखैः क्रन्दन्ती वत्सस्य रावणस्य दशमुखी पपौ पीतवती । कीदृशैः तर्षः पिपासा अर्तिः पीडा तया व्यतिलेलिहानाः पुनःपुनराखादयन्यो या रसनास्ताभी रम्यैः । द्वाभ्यां स्तनद्वयं पीतमपराण्यष्टमुखानि क्रमेण क्रन्दन्तीति भावः । व्यतिलेलिहान इति लिहेर्यङ्लुगन्तात् 'कर्तरि कर्मव्यतिहारे' इति तङ् । भुजनिवह इति । भुजसमूह एव विहङ्गिका भारयष्टिः । 'वहंगी' इति प्रसिद्धा । गुणाः शौर्यादयः, शिक्यं च । धुरीणे भारवाहे । 'खः सर्वधुरात्' इत्यत्र ख इति योगविभागात्खः । 'धूर्वहे धुर्यधौरेयधुरीणाः सधुरंधराः' इत्यमरः । अस्य राज्यभारस्य । रूपं स्वभावः । एककंधराद्भारः स्खलतीत्यु
१. 'विजित्वर-'. २. 'कैकसि'. ३. 'यान्तं पापम्'. ४. 'स्खलितम्'.
अन० २०.
For Private and Personal Use Only