________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२२४
काव्यमाला।
(सखेदं च ।)
पौलस्त्यस्य सुरासुरेन्द्रशिरसां निर्माल्यमशिद्वयं
कुर्वाणेन रघूद्वहेन घटिते सेतौ निधावम्भसाम् । अद्योन्मुद्रयति वहस्तविधृतं राजीवमिद्धो रविः
प्रत्यावृत्तरसस्य चामृतभुजामिन्दोः वदन्ते कलाः ॥ ११ ॥ (विमृश्य ।) वत्स सारण, वालिवधविशुद्धपाणेरनेकवानरानीकनायकेन साक्षादुपकृतेन सख्या सुग्रीवेण महापक्षस्य हनुमच्चरितज्ञातास्मदीयवृत्तेरयमेव सुविहितसकलाभियास्यत्कर्मणस्तस्याभियोगसमयः ।
सारणः-आर्य, अयमेवात्मद्रव्यप्रकृतिसंपन्नो नयस्याधिष्ठानं विविजिगीषुरिति प्रथमोदाहरणं दाशरथिः । माल्यवान्-(स्तम्भं नाटयित्वा ।)
यत्तस्मिन्निहतेऽपि वालिनि वयं क्षुद्रास्तथैवास्महे
__ तैयुक्तं भुजयोर्बलादपि बलं दुर्गस्य दुर्निग्रहम् । स्थ्यात्प्रयोगः । मञ्चाः क्रोशन्तीतिवत् । सर्वैरपीत्यर्थः । पौलस्त्येति । अद्य इद्धो दीप्तो रविः सूर्यः स्वहस्तविधृतंराजीवं पद्ममुन्मुद्रयति प्रबोधयति । अन्यदा रावणत्रासात्वहस्तस्थमपि पद्मं सूर्यो न प्रकाशयति, किं पुनः सरःस्थितमिति भावः । अमृतभुजां देवानां चेन्दोश्चन्द्रस्य कलाः खदन्ते रोचन्ते । इह प्रीयमाणार्थस्याविवक्षितत्वान्न चतुर्थी । प्रत्यावृत्तो व्याघुट्यायातो रसः खादो यत्र । यद्वा प्रत्यावृत्तो रसोऽनुरागो यत्र । अर्थाद्देवानाम् । अन्यदा रावणत्रासाद्देवाश्चन्द्रकला न पिबन्ति, इदानीं तु पिबन्तीति भावः । व सति । रघूद्वहेन रामेणाम्भसां निधौ समुद्रे सेतो घटिते बद्धे सति । कीदृशेन । पौलस्त्यस्य रावणस्याङ्गिद्वयं पदयुगं सुरासुरेन्द्रशिरसा देवदानवमस्तकानां निर्माल्यं कुर्वाणेन । निर्माल्यमलङ्घनीयत्वात् । इद्ध इति 'जिइन्धी दीप्तौ'। तः। पाणिः पश्चाद्देशस्थितः । पक्षः सहायः, बलं च । वृत्तियापारः । सुविहितं सकलमभियास्यतः शत्रोरभिमुखं गमिष्यतः कर्म येन तस्य । अभियोग आक्रमणम् । आत्मद्रव्याणि च प्रकृतयश्च ताभिः संपन्नः । 'बाहुश्रुत्यं तपस्त्यागः श्रद्धा यज्ञक्रिया क्षमा । भावशुद्धिर्दया सत्यं नियमश्चात्मसंपदः ॥ अमात्य राष्ट्रदुर्गाणि कोषो दण्डश्च पञ्चमः । एताः प्रकृतयस्तज्ज्ञैर्विजिगीषोरुदाहृताः ॥ एताः पञ्च तथा मित्रं सप्तमः पृथिवीपतिः । सप्तप्रकृतिकं राज्यमित्युवाच बृहस्पतिः ॥' इति नीतिशास्त्रम् । अधिष्ठानमाश्रयः । अजहल्लिङ्गतात्र । यत्तस्मिन्निति । तस्मिन्नतिबलशालिनि वालिनि १. 'विमृश्य च'. २. 'आर्य, एवमेतत्'. ३. 'तद्वयक्तम्'.
For Private and Personal Use Only