________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
६ अङ्कः] अनर्घराघवम् ।
२२३ प्रणिधिमुखेन दशकंधरादेशमभिधाय सुग्रीवशिबिरादपवाह्यते तस्मिन्नपक्रान्ते तु स्वगृहमहिभयोपजापजर्जरमवेक्षमाणो वानरपतिः शिथिलितरामप्रयोजनः स्यात् ।
माल्यवान्—(सस्मितम् ।) वत्स, साधु समर्थयसे । किं पुनः खयमङ्गदो गर्भरूपोऽभिनवोज्ज्वलयौवराज्यसुखोपलालितो दुरपवाह एव । ये चास्य मातापितृबन्धवस्ते सुग्रीवस्यापि संबन्धिनः कथमेनमुत्तिष्ठमानमनुजानीयुः।
सारणः-यथा दृष्टमार्येण । किं च कालापेक्षी दण्डनीतिप्रयोगः । तथा कथमपि महोत्साहैः कपिभिः सेतुकर्मणि प्रवृत्तं यथैतावता कालेन संतीर्णमहार्णवो रामः सुवेलशैलोपत्यकामध्यास्ते । माल्यवान्—(सविमर्शाद्भुतम् ।) अहह ।।
असौ मनुष्यमात्रेण लवितो यदि सागरः ।
प्रतापो दशकण्ठस्य भुवनैरपि लचितः ।। १० ।। थात्वात् । अनृणमृणात्प्रत्युपकाराद्विनिर्मुक्तम् । गूढो गुप्तो वानरादिवेषः । प्रणिधिश्वरः। 'प्रणिधिः प्रार्थने चरे' इति विश्वः । 'आज्ञा निदेश आदेशः' इत्यमरः । शिबिरात्कटकादपवाह्यते आनीयते । तस्मिन्नङ्गदे। स्वपक्षप्रभवं भयमहिभयम् । उपजापो भेदः । जर्जरमाकुलम् । शिथिलितं शिथिलीकृतम् । 'तत्करोति' इति णिजन्तात्क्तः । 'महीभुजामहिभयं स्वपक्षप्रभवं भयम्' इत्यमरः । 'समौ भेदोपजापौ' इति च । समर्थयसे मन्यसे किं पुनः किं तु । गर्भरूपो बालकः । उपलालितो वर्धितः । अपवाहं घजन्तं निष्पाद्य पश्चाहुःशब्देन समासः । अन्यथा दुरपवह इति स्यात् । यद्वा 'वाह प्रयत्ने' इत्यतः खलः प्रयोगः । मातापित्रिति । 'आनतो द्वन्द्वे' इत्यानडादेशः । मातृबान्धवा मातुलादयः । पितृबान्धवाः पितृव्यादयः । उत्तिष्ठमानमुद्यमं कुर्वाणम् । 'उदोऽनूर्वकर्मणि' इति तङ् । अनुजानीयुरनुमन्यन्ते । 'दमो दण्ड इति प्रोक्तस्तात्स्थ्याइण्डो महीपतिः' इति नीतिशास्त्रम् । तस्य राज्ञो नितिर्दण्डनीतिः । नयनं नीतिस्तस्याः प्रयोग आरम्भः । यद्वा दण्डनीतिः शास्तिप्रधाना नीतिः । उत्साहः पराक्रमः । प्रवृत्तं प्रवृत्तिः कृता । भावे क्तः । तेनानभिहिते कर्तरि तृतीया । सुवेलो गिरिभेदः । उपत्यका पर्वतासन्नभूमिः । 'उपत्यकानेरासन्ना भूमिः' इत्यमरः । भुवनै वनस्थैः । ता
१. 'च' २. 'किं तु स्वयम्'; 'किं पुनरङ्गदः'. ३. 'अपि सुग्रीवस्यैव'. ४. 'यथा तु महोत्साहै:'. ५. 'समुत्तीर्ण'. ६. 'सुवेलोपत्यका-'.
For Private and Personal Use Only