________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
६ अङ्कः]
अनर्घराघवम् ।
माल्यवान् तद्यथानुभवमभिधीयतां तावत् । सारण:- सारसंख्ये वनौकसामस्मन्मुखेनैव शतशः प्रतीते मातामनोलमुक्त्वा । अधुना तु सेतुग्रथनाय मिलितेषु वानरसैनिकेषु वानरमूर्तिधरोऽप्यहं महाराजविभीषणेन - (इल के सभयम् ) आर्य, चिरसंवासेन रामराजधानीप्रवादो मामनुबध्नाति ।
माल्यवान् -- ( साकूतम् ।) किमभिषिक्तः कनिष्ठवत्सो राघवेण । सारण:- -अथ किम् ।
माल्यवान् — (क्षणमिव स्तब्धं स्थित्वा निःश्वस्य ) वत्स, निःशङ्कमभिधेहि । सारण:- कुमारविभीषणेन ज्ञात्वा संयम्य चाहं रामस्य दर्शितः । माल्यवान् - (साशङ्कम् ।) ततस्ततः ।
सारणः- ततश्च राघवेण निजसचिवनिर्विशेषमुपगृह्य पुरस्कृत्य च प्रहितोऽस्मि ।
-
माल्यवान् – ( सहर्षम् 1) किमुच्यते, यावद्द्रव्यभावी गुणो हि विजि - गीषूणामुदात्तता । विशेषेण पुनरयं रामभद्रः । येतः ।
अभेदेनोपास्ते कुमुदमुदरे वा स्थितवतो विपक्षादम्भोजादुपगतवतो वा मधुलिहः ।
२१९
'पदं स्याद्धर्मपादयोः' इति शाश्वतः । सारो बलम् । संख्या एकत्वादिगणना | ग्रथनं वन्धनम् । सैनिकेषु सेनासमवेतेपु, सेनारक्षकेषु वा । सभयमिति । विभीषणे महाराजपदप्रक्षेपादिति भावः । स्तब्धमिति क्रियाविशेषणम् । उपगृह्य ज्ञात्वा । यावदिति । यावद्द्रव्यं तिष्ठति तावत्तिष्टति द्रव्यनाशे नश्यति गुण इत्यर्थः । यावद्द्रव्यं भवितुं शीलमस्य यावद्द्रव्यभावी । ताच्छील्ये णिनिः । गुण इह वीर्यशौर्यादिः । यद्वा यावद्द्रव्यं यावत्परिमाणं द्रव्यं तत्परिमाण एव गुणो वीर्यशौर्यादिः । द्रव्यं च महदिति गुणोऽपि महानिति भावः । विजिगीषूणां जेतुमिच्छूनाम् । 'न विकारं विकारस्य हेतौ यदवगाहते। तदुदात्तं गुण:' इति दण्डी । तद्भाव उदात्ततागुण इत्यन्वयः । औदार्य गुण इत्यर्थः । विशेषेण पुनरयं रामभद्र उदारत्वेन प्रसिद्ध इत्यर्थः । रामभद्रपुरस्कारस्त्वयि युक्त एवेत्यत्र दृष्टान्तमाह - अभेदेनेति । कुमुदं कर्तृ, उदरेऽभ्यन्तरे स्थितवतो वा विपक्षादतुल्यादम्भोजाद्वा सकाशादुपगतवतो मधुलिहो भ्रमरानभेदेन तुल्यत्वेनोपास्ते संयुनक्ति । कथमि
For Private and Personal Use Only
१. ' तावत्' इति पुस्तकान्तरे नास्ति २. 'अलमुक्त्वा' इति पुस्तकान्तरे नास्ति. ३. ‘वानर' इति पुस्तकान्तरे नास्ति. ४. 'मायावानरमूर्तिधरोऽपि महाराज - . ५. 'स्तब्धवत्'. ६. 'उपसंगृह्य'. ७. 'हि गुणो'. ८. 'असौ'. ९. 'किं च'.