________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२१८
काव्यमाला ।
ने किंचिदेतद्वा रावणदुर्नयेन । (सखेदमाकाशे |) आः पौलस्त्य, विद्याश्चतुर्दश चतुर्षु निजाननेषु
संबाधदुः स्थितवतीरवलोक्य वेधाः । ताभ्योऽपराणि नियतं दश ते मुखानि
स्वस्य प्रणप्तुरकरोत्स कथं जडोऽसि ॥ ४ ॥ (क्षणं च ध्यात्वा सैव्यथम् 1 ) कथमेवं विशीर्यतीव नः कुलमिदम् । खरादीनवधीद्रामो वत्समक्षं च मारुतिः ।
स्वयं निष्क्रामयामास दशास्यश्च विभीषणम् ॥ ५ ॥
अलं वा दुर्विहितमतीतमुपालभ्य । संप्रति सिन्धोरुदीचि तीरे निवे - शितस्कन्धावारो दाशरथिः किमारम्भ इति कथं प्रतीमः । (पुरो दृष्ट्रा 1) कथं राघवचरितानि चरितुं प्रहितयोः शुकसारणयोः सारणः ।
( प्रविश्य 1 ) -जयतु जयतु कनिष्ठ मातामहः ।
सारण:
माल्यवान् - (अभिनन्द्य समीपमुपवेश्य च ।) वत्स सारण, कश्चिदमुनैव पदेन सुग्रीवकटकादागतोऽसि । सारण:- अथ किम् ।
लोक्य निरुद्विग्नं रावणं लक्षीकृत्याह - विद्या इति । चतुर्दश विद्याश्चतुर्षु निजाननेषु स्वकीयमुखेषु संबाधेन संकटेन दुःस्थितवतीर्दुःखेनावस्थिता दृष्ट्रा ताभ्यो विद्याभ्यः । तादर्थे चतुर्थी । प्रणप्सुः प्रपौत्रस्य तवापराणि दश मुखान्यकरोत्स त्वं कथं जडोऽसि मूर्खोऽसि । तथा चात्र प्रतिक्रिया कर्तुमुचितेति भावः । 'अङ्गानि वेदाश्चत्वारो मीमांसा न्यायविस्तरः । धर्मशास्त्रं पुराणं च विद्या एताश्चतुर्दश ॥ अङ्गानि वेदाङ्गानि षट् । 'शिक्षा कल्पो व्याकरणं निरुक्तं ज्यौतिषं तथा । छन्दसां विचितिश्चैव षडङ्गो वेद इष्यते ॥ इति पुराणम् । विशीर्यत्यवसन्नं भवति । नोऽस्माकम् । अवधीद्धतवान् । हन्तेः ‘लुङि च' इति बधादेशः । अक्षं रावणसुतम् । निष्क्रामयामास निःसारितवान् । दुर्विहितं दुष्टतम् । उदीच्युत्तरस्मिन् । स्कन्धावारः कटकम् | आरम्भ उद्यमः । चरितुं ज्ञातुम् । 'चर गतौ' । 'सर्वे गत्यर्था ज्ञानार्था:' इति न्यायात् । सारणः । अस्तीति शेषः । दृश्यत इति वा । समीपं संनिहितम् । अमुनैव पदेनेति लोकोक्तिः । इदानीमेवेत्यर्थः ।
१. ‘न किंचिदेतद्रावणस्य दुर्नयेन'; ' न किंचिदेव तावद्रावणस्य दुर्नयेन'. २. 'आभ्यः'. ३. 'सव्यथम्' इति पुस्तकान्तरे नास्ति. ४. 'सकलमेव शीर्यतीव नः कुलम्'. ५. 'दुर्दैवम्' ६. 'संप्रति' इति पुस्तकान्तरे नास्ति. ७. 'किमारभते'.
For Private and Personal Use Only