SearchBrowseAboutContactDonate
Page Preview
Page 224
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ६ अङ्कः अनर्धराघवम् । २१७ षष्ठोऽङ्कः । (ततः प्रविशति माल्यवान् ।) माल्यवान--(सर्वतोऽवलोक्य सखेदम् ।) अहह कष्टम् । दग्धाः प्रदीप्तपावकपरिचयपिण्डस्थहेमवेश्मानः । क्षणमुत्पुच्छयमाने हनुमति लङ्कापुरोद्देशाः ॥ १ ॥ अपि च । निजकिरणौघप्रमुषितनिम्नोन्नतरूपकर्मभेदेषु । मणिभवनेषु कृशानुज्वालाः फलतोऽनुमीयन्ते ॥ २ ॥ (विमृश्य ।) अहो दुर्निवारता भवितव्यतायाः । दोःसंदोहवशंवदत्रिभुवनश्रीगर्वसर्वकषः कैलासोद्धरणप्रचण्डचरितो वीरः कुबेरानुजः । यत्रायं स्वयमस्ति सेयममरावत्यापि वन्द्या पुरी नीता मर्कटकेन कामपि दशां धिग्दैवमावश्यकम् ॥ ३ ॥ संप्रति रावणविनाशसूचकं लङ्कादाहाशोकवनिकाभङ्गादिरूपमुत्पातं प्रकटयितुं माल्यवतः प्रवेशमाह-ततः प्रविशतीति । न चात्र 'नासूचितं विशेत्पात्रम्' इति भरतविरोधः । चतुर्थाङ्के माल्यवता 'तदेहि । राजकुलमेव गच्छावः'इति निजप्रवेशस्य सूचितत्वात् । अन्तरा तु परशुरामकलहादीत्यन्यदेतत् । दग्धा इति । परिचयः संबन्धः । पिण्डस्थं पिण्डीभूतम् । उत्पुच्छयमाने पुच्छमुत्क्षिपति सति । 'पुच्छभाण्डचीवराण्णिङ् । लङ्कापुरस्योद्देशा वासस्थानानि । निजेति । प्रमुषितोऽपहस्तितः । मणितेजःसमूहसंबन्धान्मणिभवनानि निम्नोन्नतानि न दृश्यन्त इति भावः । फलतो दाहादिकार्यात् । कार्येणैव कारणमनुमीयत इत्यर्थः। भवितव्यतेत्यत्र 'कृदभिहितोभावो द्रव्यवत्प्रकाशते' इति तल्प्रत्ययः । अत एव 'सर्वकषा भगवती भवितव्यतैव' इति भवभूतिरप्याह । भवितव्यताया दुर्निवारत्वं स्फुटयति-दोःसंदोहेति । संदोहः समूहः । वशंवदो वश्यः । 'प्रियवशे वदः खच्' । श्रीः संपत्, उत्कर्षों वा । सर्वकष इति । 'सर्वकूलाभ्रकरीषेषु कषः' इति खचू । उद्धरणमुत्तोलनम् । कुबेरानुजो रावणः । अमरावत्या देवनगर्या । 'नगरी त्वमरावती' इत्यमरः । इह 'कृत्यानां कर्तरि वा' इति षष्टीविकल्पात्ततीया । मर्कटकेन कुत्सितवानरेण हनुमता । कुत्सार्थे कन् , निन्दायां वा । कामपि शोचनीयाम् । आवश्यकमवश्यंभावि दैवं धिगस्तु । अवश्यंभाव आवश्यकम् । 'ओरावश्यके' इति निपातनादुञ् । 'अव्ययानां भमात्रे टिलोपो वक्तव्यः' इति टिलोपः । लङ्कादाहमप्या For Private and Personal Use Only
SR No.020040
Book TitleAnargha Raghavam
Original Sutra AuthorN/A
AuthorMurari, Durgaprasad Pandit, Vasudev Lakshman Shastri
PublisherNirnaysagar Press
Publication Year1908
Total Pages331
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy