SearchBrowseAboutContactDonate
Page Preview
Page 223
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir काव्यमाला। (अन्तरिक्ष पुष्पवृष्टयनन्तरम् ।) जय जय जगत्पते रामभद्र, लक्ष्म्या वालिनिबर्हणप्रेशमितद्वैराज्यवैराग्यया किष्किन्धायतनैकदैवतमयं तारापतिर्दीप्यते । नप्तारं युवराजमङ्गदमपि श्रुत्वातिहर्षादभू दस्राम्भःपृषतौघमौक्तिकमयो गुम्फः सहस्रेक्षणः ॥ ५५ ॥ लक्ष्मण:-प्रियात्प्रियतरं नः । वयस्य गुह, तदेहि । आवामपि महोत्सवसंविभागिनौ भवावः । (इति निष्क्रान्तौ।) इति सुग्रीवाभिषेको नाम पञ्चमोऽङ्कः । गमोऽभिलषितः । विलीनो मृतः अन्तरिक्षे जय जयेत्यादि देववाणी । लक्ष्म्येति । वालिनिबर्हणेन वालि विनाशेन प्रशमितं द्वैराज्यवैराग्यं यस्यास्तादृशा लक्ष्म्या तारापतिः सुग्रीवो दीप्यते । वालिनापहृतायास्ताराया लाभात्संप्रति सुग्रीवस्य तारापतिपदेनोपन्यासः । किष्किन्धायतनस्यैकमद्वितीयम् । वालिनोऽभावात् । यद्वा एकं श्रेष्ठं दैवतं देव इति तारापतिविशेषणम् । सहस्रेक्षणोऽपीन्द्रोऽपि नप्तारं पौत्रमङ्गदं युवराजं श्रुत्वातिहर्षादसाम्भःपृषतौघमौक्तिकमयो गुम्फोऽभूत् । अस्राम्भोऽश्रुजलं तस्य पृषतो बिन्दुः । 'पृषन्ति बिन्दुपृषताः' इत्यमरः । तस्यौधः समूहः स एव मौक्तिकं तन्मयो गुम्फो गुम्फनं कङ्कणं वा। 'गुम्फस्तु गुम्फने बाह्वोरलंकारेऽपि कथ्यते' इति मेदिनीकरः। निष्क्रान्तौ लक्ष्मणगुहौ ॥ इति समस्तप्रक्रियाविराजमानरिपुराजकंसनारायणभवभक्तिपरायणश्रीहरिनारायणपदसमलंकृतमहाराजाधिराजश्रीमढैरवसिंहदेवप्रोत्साहितवैजोलीग्रामवास्तव्यखौआलवंशप्रभवरुचिपतिमहोपाध्यायविरचिताया मनर्घराघवटीकायां पञ्चमोऽङ्कः । १. 'उपशमित-'. For Private and Personal Use Only
SR No.020040
Book TitleAnargha Raghavam
Original Sutra AuthorN/A
AuthorMurari, Durgaprasad Pandit, Vasudev Lakshman Shastri
PublisherNirnaysagar Press
Publication Year1908
Total Pages331
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy