________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
५ अङ्कः] अनर्घराघवम् ।
२०७ रामः-(विहस्य ।) वत्स गुह, एष खलु पौलस्त्यगतेनामर्षेण धूमायमानो यया कयाचिद्वाचा सौमित्रिरभिदधातु नाम । सततसमिध्यमानजानकीविरहवैश्वानरेण रामचेतसा पुनरग्निसाक्षिकमेव सुग्रीवो मित्रमभ्युपगतः।
गुहः--(सहर्षम् ।) परमनुगृहीतोऽसौ देवेन विकर्तनतनयः । (सपरिहासस्मितं च ।)
सुग्रीवे यदि पक्षपातमधुरं देव त्वदीयं मनः
किं नस्तेन विदांकरोतु भगवानम्भोजिनीवल्लभः । नव्येनात्मजराज्यलाभरभसोद्भूतेन यस्तेजसा
पूर्वस्मादधिकेन दुःसहतरो लोकेषु वर्तिप्यते ॥ ३४ ॥ लक्ष्मणः-(विहस्य 1) कथं तपनतनयस्य राज्यमङ्गीकारिता वयं वयस्येन ।
रामः-(सस्मितम् ।) वत्स गुह, न तावत्प्रकाशमेवं प्रतिशुश्रूषति मे हृदयम् । गुहः-(सप्रश्रयस्मितम् ।) खामिन् , इयमेव मैहतां शैली ।
सन्तो मनसि कृत्यैव प्रवृत्ताः कृत्यवस्तुनि । कस्य प्रतिशृणोति स्म कमलेभ्यः श्रियं रविः ॥ ३५॥
कपिभावचञ्चलः सन्यदि ज्ञातेयं ज्ञातिभावं शिथिलयसि त्यजसि तदा वालिक्षतजरसचपला मे शराः प्रतिभुवो लग्नकाः। तव चाञ्चल्ये सति यैः शरैर्वाली मारणीयस्तैरेव त्वामपि हनिष्यामीति भावः । ज्ञातेयं कापेयमिति 'कपिज्ञात्योढक्' इति भावे ढक् । 'सगोत्रबान्धवज्ञातिबन्धुखस्वजनाः समाः । ज्ञातेयं बन्धुता तेषां क्रमाद्भावसमूहयोः॥' इत्यमरः । क्षतजं रक्तम् । समिध्यमानः खयं प्रज्वलन् । 'निइन्धी दीप्तौ' । कर्मकर्तरि लट् । अग्निसाक्षिकमिति । अग्निः साक्षी यत्र । पक्षपातोऽनुग्रहः । विदांकरोतु जानातु। अम्भोजिनीवल्लभो भगवान्सूर्यो दुःसहतरं यथा स्यादेवं लोकेषु वर्तिष्यत इत्यन्वयः । नव्येन स्तव्येन । प्रतिशुश्रूषत्यङ्गीकारमिच्छति। 'ज्ञाश्रुस्मृदृशां सनः' इति प्राप्तस्य तङः 'प्रत्याभ्यां ध्रुवः' इति प्रतिषेधः । 'अङ्गीकाराभ्युपगमप्रतिश्रवसमाधयः' इत्यमरः। शैली व्यवहारः। मनसिकृत्य हृदये कृत्वा । 'अनत्यधान उरसिमनसी' इति गतिसंज्ञायां समासे ल्यप् । अत्रार्थान्तरं न्यस्यति-कस्येति । कस्येत्यनन्तरं पुरत इति शेषः । यद्वा कस्य कृते । प्रतिशृणोति स्माङ्गीकृतवान् । तथा च रविणा कमलेभ्यः श्रीर्मनसैव
१. 'वयस्य'. २. 'असौ' इति पुस्तकान्तरे नास्ति. ३. 'वो महतां'. ४. 'कृत्वैव'.
For Private and Personal Use Only