SearchBrowseAboutContactDonate
Page Preview
Page 212
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ५ अङ्कः अनर्घराघवम् । २०५ पौलस्त्यावयवौघसंकटभुजामूलक्षणोन्मूलित द्वैराज्याममरावतीं कृतवते वीराय यस्मै हरिः । नित्यालोकनकौतुकव्यसनिनीः शङ्के सहस्रं दृशः पिण्डीकृत्य दलच्छलेन कनकाम्भोजस्रजं दत्तवान् ॥ ३१ ॥ क्षणं च देवस्य महावीरसंवादगोष्ठीयमृष्यमूकयात्रामन्तरयिष्यति । तदहमग्रतो गत्वा दिल्या वर्धयामि सूर्यतनयम् । रामः-एवमस्तु । गुहः-वाचिकं पुनरेतावत्कुमारसुग्रीवस्य यत् 'मित्रपर्यायान्तरितं देवस्य दास्यमिच्छामि' इति । रामः—(अपवार्य ।) वत्स लक्ष्मण, एवमाह वयस्यस्ते गुहः । किं च मंत्रोत्साहसंपन्नानामपि प्रभुशक्तिमपेक्षन्ते सिद्धयः । तदहं वालिस्थाने सुग्रीव॑मभिषिच्य तत्कोषदण्डाभ्यां समग्रशक्तिर्वैरपारं गन्तुमिच्छामि । __ लक्ष्मणः-(सस्मितम् ।) यद्येवमुपयुज्यमानमिन्द्रसूनुमुपेक्ष्य सुग्रीवेणोपयोक्ष्यमाणेन संधिरिति वक्रः खल्वयं पन्थाः। रोषरागेण, खभावेन च त्रैगुण्यमित्यर्थः। पौलस्त्येति । पौलस्त्यो रावणस्तस्यावयवौघो हस्तादिसमूहस्तेन संकटं व्याप्तं यद्भुजामूलं कक्षा तेन क्षणमुन्मूलितं द्वैराज्यं यस्यास्ताम् । प्रत्यहं वाली रावणं कक्षायां निक्षिप्य पृथ्वीप्रदक्षिणं कृत्वा सप्तसमद्रेषु संध्यामकृतेति पुराणम्।यदा रावणं कक्षानिक्षिप्तं करोति तदामरावती एकराजवती भवति । अन्यदा रावणेनैव द्वैराज्यं तत्रेति भावः । यस्मै वालिने । हरिरिन्द्रः । शङ्के तर्कयामि । मम सुतेन तेन मम द्वैराज्यं क्षणं खण्डितमिति दृशश्चक्षुषि दलच्छलेन पत्रव्याजेन पिण्डीकृत्य वर्तुलीकृत्य कनकाम्भोजस्रजं दत्तवानिति । दिट्या वर्धयामि उत्सवं तस्य करोमि । 'दिष्टयापूर्वो वर्धतिरुत्सवे' इति भरतः। 'संदेशवाग्वाचिकं स्यात्' इत्यमरः। मित्रपर्यायः सुहृदभिधानं तेनान्तरितं व्यवहितम् । मित्राभिधानं दासत्वमित्यर्थः। मन्त्रः पाडण्यम् । शक्तयः प्रभावोत्साहमन्त्रजाः। अभिषिच्यारोप्य । कोषो धनम् । दण्डो राज्यम् । उपयुज्यमानमुपयुक्तीभवन्तम् । इन्द्रसूनुं वालिनम् । उपयोक्ष्यमाणेनोपयुक्तीभविष्यता । वक्रोऽनृजुः । उपयुक्तत्यागात् । सुग्रीवेण समं प्रीतिकरणे कारणमाह १. 'तस्मै'. २. 'मन्ये'. ३. 'क्षणं च वीरसंवाद-'. ४. 'तदयम्'. ५. 'मन्त्रोत्साहशक्ति-'. ६. 'आधाय'. For Private and Personal Use Only
SR No.020040
Book TitleAnargha Raghavam
Original Sutra AuthorN/A
AuthorMurari, Durgaprasad Pandit, Vasudev Lakshman Shastri
PublisherNirnaysagar Press
Publication Year1908
Total Pages331
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy