________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२०४
काव्यमाला।
विलोक्य म्लेच्छन्तीमलमलमिति प्राक्प्रणिहितं
- शरव्याल्लुब्धानां हृदयमपराद्धं न तु शराः ॥ २९ ॥ रामः-(सास्रम् ।) हा देवि जानकि, मारीचमृगयाव्यग्रे मयि प्राप्ते च रावणे ।
आसामिव कुरङ्गीणां तवोत्पश्यामि लोचने ।। ३० ॥ लक्ष्मणः—(खगतम् ।) कः पुनरुपायो येन विनोद्यते हृदयमार्यस्य ।
(नेपथ्ये।) भो भो वनौकसः, कथयन्तु भवन्तः । केनास्मत्कीर्तिकामिनीकेलिचङ्कमणक्रीडापर्वतो विवर्तितोऽयं दनुराजकङ्कालकूटः ।
गुहः-(दृष्ट्वा । सभयसंभ्रमम् ।) देव, पश्य पश्य । कनकमयसहस्रपत्रपुण्डरीकवैकक्षकप्रभापटलेन दुन्दुभिकरङ्कव्यतिकरजन्मना च रोषरागेण त्रिगुणपिशङ्गी तनुमादधानः प्लवगराजोऽयमित एवाभिवर्तते ।
शोच्या या हरिणी तस्या मुखावलोकनेनोन्मीलन्नुदयं गच्छन्यों गुरुरतिशयितः करुणो रसस्तेन रुग्णां दुःखिताम् । अलमलं मैवं मैवमिति चारुभाषया भाषमाणाम् । यद्वा व्यक्तमभिदधतीं सहचरी प्रियां प्रेक्ष्य लुब्धानां व्याधानां शरव्याल्लक्ष्यात्प्राक्प्रणिहितं पूर्वप्रहितं हृदयमपराद्धं च्युतलक्ष्यमभूत् । न तु शरा अपराद्धाः । शरव्य एव पतिता इत्यर्थः । हरिणीहनननिषेधकारिण्याः प्रियाया वचनं श्रुत्वा प्रथमं त्यक्तशरत्वाद्धरिणीहनने व्याधानां धिग्बुद्धिरभूदिति भावः । केचित्तु 'मृगवधे प्रथमं मनोमानं प्रहितं प्रेयसीवचसा तन्निवृत्तम् । इति तस्यापराद्धत्वं च्युतलक्ष्यत्वम् । शरप्रस्थापनं कर्तव्यमेवासीदिति न तस्यापराद्धत्वमभूत्' इति वर्णयन्ति । 'अपराद्धपृषत्कोऽसौ लक्ष्याद्यश्चयु. तसायकः' इत्यमरः । म्लेच्छन्तीमिति 'म्लेछ व्यक्तायां वाचि' इत्यस्य रूपम् । 'म्लेच्छनं चारुभाषायाम्' इति विश्वः । मृगया आखेटकम् । व्यग्रे आकुले । उत्पश्यामि तर्कयामि । नेपथ्ये भो भो इत्यादि वालिवचनम् । चङ्क्रमणं कुटिलगमनम् । विवर्तितो विलोडितः। कङ्कालकूटः कूटाकारं मांसशून्यसकलशरीरास्थि । 'कराट' इति प्रसिद्धम् । 'स्याच्छरीरास्नि कङ्कालः' इत्यमरः। कनकमयेति । कनकमयानि सहस्रं पत्राणि यस्मिन्पुण्डरीके तस्य वैकक्षकं तिर्यगुरसि न्यस्तपुष्पमाला । पटलं समूहः । 'वैकक्षकं तु तत् । यत्तिर्यविक्षप्तमुरसि' इत्यमरः । करङ्कमस्थि । 'करको मस्तकास्थिनि' इति मेदिनीकरः। खतिकरो विलोडनम् । रागो लौहित्यम् । कनकमयपुण्डरीकमालाप्रभया,
१. 'प्रणिहिताः'. २. 'विनोदयते'. ३. 'कामिनीचङ्क्रमणकेलिपर्वत'. ४. 'प्रभामण्डलेन'.
For Private and Personal Use Only