________________
Shri Mahavir Jain Aradhana Kendra
- देव, पश्य पश्य ।
www.kobatirth.org
५ अङ्कः ]
अनर्घराघवम् ।
२०३
गुहः -- (सहर्षमात्मगतम् ) कथमचिरादेव फलवती जाम्बवतो मन्त्रशक्तिः । (प्रकाशम् ।) इत इतो मतङ्गाश्रमवर्त्मना देवः ।
(इति सर्वे परिक्रामन्ति ।)
गुहः
विदधति मुदमक्ष्णोर्नूतनानूपनीपप्रहसनसहचर्यानित्यनृत्यन्मयूराः । फलपुलकितजम्बूकुञ्जकूजत्कपोत
प्रियशबरपुरंबन्धवो विन्ध्यलेखाः ॥ २७ ॥
राम: – (सर्वतो निरूप्य । सखेदम् ।)
Acharya Shri Kailassagarsuri Gyanmandir
समन्तादुन्मीलद्बहललहरीलङ्घनकला
लघु प्रेङ्खत्पम्पानिलविदलदेलासुरभयः । अविद्यावैदेहीशतलिपिकरीणां मम धिया
ममी हस्तालम्बं विपिनविनिवेशा विदधते ॥ २८ ॥ लक्ष्मणः – आर्य, इतस्तावत् ।
भयभ्रष्टप्रेयोविरहनिरहंकार हरिणी
मुखालोकोन्मीलगुरुकरुणरुग्णां सहचरीम् ।
संप्रदानता । ऋष्यमूकः पर्वतभेदः । मन्त्रशक्तिर्मन्त्रणासामर्थ्यम् । सीताविरहसंतप्तं राममन्यमनीकर्तुमाह - विदधतीति । विन्ध्यस्य लेखाः शृङ्गपङ्कयो चनपङ्कयो वा अक्ष्णोश्चक्षुषोर्मुदं हर्षे विदधतीति योज्यम् । कीदृश्यः । फलैः पुलकित इव पुलकितो यो जम्बूवृक्षस्तस्य कुञ्जे कूजन्तः शब्दायमाना ये कपोतास्तेषु प्रिया लालसा याः शबरपुरंध्यस्तासां बन्धवो मित्राणीत्यर्थः । अनुगता आपो यत्र सोऽनूपो जलप्रायो देशः । 'ऊदनोर्देशे' इत्यपोऽकारस्य ऊत्त्वम् । नीपः कदम्बवृक्षः । प्रहसनमिव प्रहसनं पुष्पविकास: । सहचर्या साहचर्यम् । 'जलप्रायमनूपं स्यात्' इत्यमरः । समन्तादिति । अमी I विपिन विनिवेशा वनप्रदेशा मम धियां हस्तालम्बमुपचयं हस्ताकर्षणं व्यवसायं वा विदधत इत्यन्वयः । कीदृशीनाम् | अविद्यावैदेहीशतलिपिकरीणां मिथ्या सीताशतस्य लिखनकर्त्रीणाम् । सीताविनिविष्टचित्तत्वात्सर्वत्र सीतैवास्तीति भ्रम इति भावः । समन्तात्सर्वत्रोन्मीलन्ती प्रसरन्ती या बहला निबिडा लहरी कल्लोलस्तलङ्घनकलायां लघवो ये प्रेङ्खत्पम्पानिलाश्चलत्सरोविशेषवायवस्तैर्वि दलन्यो या एलास्ताभिः सुरभय इत्यर्थः । भयेत्यादि । भयेन त्रासेन भ्रष्टः पलायितो यः प्रेयान्वल्लभस्तस्य विरहेण निरहंकारा १. 'जाम्बती'. २. 'विन्ध्यपादाः '.
1
For Private and Personal Use Only